________________
Shri Mahavir Jain Aradhana Kendra
8
12
www.kobatirth.org
अथ पुनः सम्यक्त्वं बिना कृतानामप्यन्यधर्मकृत्यानामकिश्चित्करत्वं दृष्टान्तमाह
मूलम् - सव्वंगंपि हु सगडं जह न चलइ इक्कबड हिलारहियं । तह धम्मफडाडोवं न चलइ सम्मत्तपरिहीणं ॥ ११६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - सर्वाङ्गमपि शकटं, समस्तयुगयुगकीलचक्रादिस्वाङ्गसमेतमप्यनो यथा येन प्रकारेण न चलति न स्पन्दते । 'इक्कबडिहिलारहियं'ति एका चासौ बडिहिला च एकबडिहिला लोकप्रसिद्धो धूर्मूले कीलिकाविशेषः । तया रहितं वियुक्तं शकटं हि सर्वेष्वपरेष्वङ्गेषु सत्स्वपि एकां बडहिलां विना न चलत्येव । तथा धर्माणां दानादीनां स्फटाटोप इन स्फटाटोप उपचारादाडम्बरो नपुंसकत्वं प्राकृतत्वान्न चलति न निर्वहति । क्वचित ' न फलइ सम्मपरिहीणं' वि पाठः स तु स्पष्ट एव सम्यक्स्वपरिहीणः सम्यक्त्वरहित इति । सम्यक्त्वरहितं : चारित्रमपि न फलदम् । यतःदंसणभट्ठो भट्ठो दंसणभट्टस्स नत्थि निव्वाणं । सिज्झति चरणरहिया दंसणरहिया न सिति ॥ ३२९ किं पुनर्दानादीनीति । ततोऽयं भावः सर्वधर्ममूलभूते सम्यक्त्वे माक् दाढयै विधेयमितिगाथार्थः ।। ११६ । ननु सम्यक्त्वं विनाऽन्यो धर्माम्बरोsकिश्चित्कर इति वचनं मिथ्यात्विनं प्रति रोषाद् भविष्यतीत्याशङ्कायामाह -
For Private and Personal Use Only