________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatith.org
व्याख्या-सम्पति दुःषमकाले पश्चमारके धर्मार्थिनः शुद्धधर्माभिलाषुकाः मुगुरवश्च श्रावकाच सुगुरुश्रावका दु. लभा दुष्मापाः सम्मति कालवैषम्यात्तादृशानामल्पत्वात् । ये शुद्ध धर्ममिच्छन्ति यतः-शैले शैले न माणिक्यं मौक्तिकं न गजे गजे । साधवी नहि सर्वत्र चन्दनं न वने वने ।। ३१५ ॥ तर्हि के सुलभा इत्याह-नाम्नैव गुरवो न तु भावाचार्या नाम्नैव श्राद्धाः सम्यक्त्वमूलद्वादशवतराहित्येन कुलक्रमायातं श्रावकनामोदहमाना नामश्राद्धाः । यत एव च नामगुरुनामश्राडास्तत एव सरागद्वेषा रागद्वेषाभ्यां सहितास्तादृशाश्च बहवः प्रभूता अस्तीत्यव्ययं सन्तीत्यर्थे । रागद्वेषकलितानां च नामगुरुनामश्राहाना बहुत्वेऽपि प्राचुर्येण [ सन्मार्गोपदेष्टा विना च चतुर सन्मार्गोपदेष्टार (विना) लोकाः शोकादिभ्यो न निवर्तन्ते । ततश्चानिवर्तमाना आत्मानं दुर्गतौ क्षिपन्तीति प्रती. तमेवेति गाथार्थः ॥ ११२॥ सुगुरुश्रावकदुर्लभतायां हेतुमाह--
मूलम-कहियं पि सुद्धधम्म काहि वि धन्नाण जणइ आणंद ।
मिच्छत्तमोहियाणं होइ रईमिच्छधम्मेसु ॥ ११३ ॥ व्याख्या-इहापि लिङ्गव्यत्ययः प्राकृतत्वात्, कथितोऽपि सप्रपञ्चमाख्यातोऽपि आस्तां संक्षेपाभणित इत्यपरथः । शुद्धो निर्दोषो भगवदाज्ञाप्रधानो धर्मः श्रुतादिरूपः केषांचिदपि अत्रापि शब्दोऽवधारणार्थः स्तोकानामेब धन्यानां पुण्यवतां जनयत्युत्पादयत्यानंदं न सर्वेषां, धर्मार्थिनां स्तोकत्वात् । यतः “रयणत्थिणोत्ति थोवा तहा
कक
ESS
For Private and Personal Use Only