________________
Shri Mahavir Jain Aradhana Kendra
४
१२
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
पश्यन्ति ये प्रमादिनोऽभिनिविष्टानामात्मानं स्वं प्रमादिनो हि म्रियमाणं लोकं दृष्ट्वा स्वात्मानं मरिष्यमाणं न पश्यन्ति । यथा-" मरणं प्रकृतिः शरीरिणां विकृतिजीवितमिष्यते बुधैः । क्षणमप्यवतिष्ठते श्वसन् यदि जन्तुर्ननु लाभवानसौ ॥ ११२ ॥ कथमेवमित्याह--यतो विरमन्ति न पापात् विरज्यन्ते न दुष्कर्मणः तेषां प्रमादिनामभिनिविष्टानां वा धृष्टत्वं धिक् धिक् तस्माद्धर्मे प्रमादाभिनिवेशौ स्याज्यावित्यर्थः ॥ १०९ ॥ अथ तेषामेव कुत्र स्नेहत्वमाहमूलम् - सोहेण कंदिऊणं कुडेऊणं सिरं च उरउयरं । अप्पं खिवंति नरए धिट्ठी तं पि य कुनेहन्तं ॥ ११० ॥
व्याख्या - धोकेनेष्टवियोगादिजनितेन हेतुना क्रन्दित्वा परिदेव्य कुट्टयित्वा ताडयित्वा शिरो मस्तकं, चकारी भिअक्रमः स च पदान्ते सम्बन्धनीयः । उरो हृदयमुदरं जठरं ततश्च निषिडमोहव्याप्तमात्मानं क्षिपन्ति नरके स्वभ्रे, उपछक्षणमेत तिर्यग्गतिकुदेवगतिकुमनुष्यगतीनां शोकात्परिदेवतादि कुर्वन्तो दुर्गतिभाजनमात्मानं न जानन्ति यतः - शो. चन्ति स्वजनानंतं नीयमानान् स्वकर्मभिः । निष्यमाणन्तु शोचन्ति नात्मानं मूढबुद्धयः ॥ ११३ ॥ तस्मादपि धिक् धिक्र कुस्नेहवं यन्मृतार्थे शिरः कुहनादि, तस्माद्विविवेकिन। शोको न विधेय इति गाथार्थः ॥ ११० ॥ शोके च क्रियमाणे प्रत्युत दोष एवेत्याह
For Private and Personal Use Only