________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या-अधाप्यस्मिन्नपि काले गुरखो धर्माचार्याः कीदृशा इन्याह-गुणिनो ज्ञानादिगुणयुक्ताः शुडाः शुद्ध. मार्गमरूपका दृश्यन्ते साक्षादीक्ष्यन्ते तानेव विशिनष्टि ' तडयडत्ति' देश्यत्वात् भृशं क्रियाकाठा इत्यर्थः। केऽपि कियन्तोऽपि 'दुप्पसहतं चरणमिति' वचनप्रामाण्यात् । तथापि विशेषोऽस्ति तमेवाह-परं जिनवल्लभसदृशः श्रीनिन-12 वल्लभमूरिसमानः पुनरपि जिनवल्लभ एवान्यस्य तत्समस्याऽभावात । यतः स हि भगवान कूर्वपुरीयगच्छाधिपश्रीजिनेश्वराचार्यदीक्षितोऽपि चैत्यवासं कटुविपाकमाकळय्य संवेगातिशयात् सुविहिनचक्रवर्तिनां श्रीमदभयदेवमूरीणां पार्थे
स्वगच्छादिदृष्टिरागं विहाय स्वगुर्वनुज्ञयोपसम्पन्नः । दुरुच्छेदश्च दृधिरागः यतः-कामरागस्नेहरागावीषत्कर BI निवारिणी । दृष्टिरागस्तु पापीयान् दुरुच्छेदः सतामपि ॥ ३०८ ॥ ततश्च दुरुच्छेदृष्टिरागच्छेदान्नैतत्समो
परो गीतार्थत्वनिर्ममत्वादिगुणकलिततया क्रियाकलापकर्मठोऽस्ति सम्पतीति गाथार्थः ॥ १०७॥ अथ श्री जिनबल्लभसूरीणामनन्यसदृशत्वेन सर्वोत्कृष्टानामपि वचनात् केषां चित्सम्यक्त्वं न भवतीति सदृष्टान्तमाह
मूलम्-वयणे वि सुगुरुजिण-वल्लहस्स केसिं न उल्हसइ सम्म ।
अह कह दिणमणितेयं उब्लुयाण वि हरइ अंधत्तं ॥ १०८॥ __ व्याख्या--पञ्चम्यर्थत्वात सप्तम्या वचनात् सुगुरुजिनवल्लभस्यापि मागुपन्यस्तोऽपि शब्दोऽत्र सम्बध्यते भिन्नमत्वात्, केषांचिमिचिदाभिनिवेशवासितमतीनां सम्यक्त्वं नोल्लसति । किमिह सुबहुवाया वित्थरेणं भवाओ,
For Private and Personal Use Only