________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्टिशवक॥८९॥
त्वमुक्तं, शेषाणां च परिहारः । तदस्तु नाम परं गुरुषु समानवेषुष्वेव केऽपि वंद्यन्ते केऽपि नेति तु रागद्वेषयोरेव कार-दीपकरणम् ॥ कारणमित्याशक्याह--'अम्हाणमित्यादि, व्याख्या च पूर्ववदेव केवलमुपलक्षणार्थों न वाच्या, तस्माद् गुणवद-दा
सटीक जीकरणेन सदोषोपेक्षणेन चाभिनिवेशाभावेन गुरुविषये रागद्वेषौ न स्त इति गाथार्थः ॥ १०४ ॥ गुरुविषये रागद्वेषाभावमेवाह
मूलम्-नो अप्पणा पराया, गुरुणो कईया वि हुंति सुद्धाणं ।
जिणवयणरयणमंडण-मंडियसव्वे वि ते सुगुरू ॥ १०५॥ व्याख्या--'नो' निषेधे, आत्मीयाः परकीया वा गुरवः कदापि भवन्ति शुद्धानां निर्मलसम्यस्थानां प्रस्तावाच्छाघकाणां साधूनां हि दिग्बन्धादिकरणेन गुरुविषयस्वकीयपरकीयत्वविभागस्यागमे श्रूयमाणत्वात्।ततः श्रमणोपासकानामेते हि गुरवोऽस्मदीयाः कुलपारम्पर्यागतास्तेन यादृशास्तादृशा वा संतु परमस्माभिः सर्वमेतेषामेव पार्थे कर्तव्यं कृतिकादि वस्त्रपात्रादि चैतेभ्य एव दातव्यम् । एते च परकीया एतेषां पार्थनास्मदीयेन केनापि किमपि कर्तव्यम्,न च दातव्यममीभ्यो वस्त्रादि स्वगुरुं विनाऽन्यस्य कर्तुं न कल्पते इति विभागः,श्रावकाणां नास्ति ।एवं च कृतदिग्बन्धानां घटते,तेषां च श्रुते क्वापि दिग्बन्धाश्रवणात् । श्राद्धानां दिग्बन्धकरणे गुरोस्तत्कृतारभ्भानुमतिदोषः । तदुक्तं-"आरम्भनिर्भरगृहस्थपरिग्रहेण-सत्पातकं सकलमात्मनि सन्दधानाः । सत्यापयन्त्यहह तस्करमोष दोष-माण्डव्यनिग्रह-18॥ ८९ ।।
DARS
For Private and Personal Use Only