SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्बन्धः नपुंसकनिर्देशश्चात्र प्राकृतत्वात् अर्हन्तं तदुक्तधर्म सुगुरुं चाश्रयामीति भावः । गुणपक्षपातरूपत्वात् तदाश्रयस्य शेषं उक्तदेवगुरुधर्मतत्वादन्यत् पापस्थानं पापपदं मिथ्यात्वादिक परं परकीयं कुगुरु-कुदेव-कुधर्मादिक परतीर्थिक| सम्बन्धि 'अप्पाणंति' आत्मीयं स्वकुलक्रमायातं गोत्रदेवीपूजनपार्श्वस्थनमनाऽविधिप्ररूपणादिकं वर्जयामि परिहरा| मि । सदोषतया त्यागार्हत्वात्तस्येति गाथार्थः ॥ १०३ ॥ नन्वेवमेकेषामाश्रयणे नान्येषां च वजनेन भवतां रागद्वेषौ भविष्यत इत्याशक्क्याह मूलम्-अम्हाण रायरोस कस्सुवरिं इत्थ नत्थि गुरुविसए । जिण आणरया गुरुणो धम्मत्थं सेसवोसिरिमो ॥ १०४ ॥ व्याख्या--' अम्हाणेत्ति' अस्माकमुपलक्षणत्वात् अन्येषां च जिनवचनभावितमतीनां रागरोपं रागश्च रोषश्च रागरोषमिति समाहारान्नपुंसकत्वं प्रीतिद्वेषावित्यर्थः, 'कस्सुवरि' मित्यत्रापिशब्दस्य गम्यमानत्वात्, कस्याप्युरिअत्र जगति नास्ति न विद्यते गुरुविषये, अमी अस्मदीया अमी अन्येषामित्यादि, एवं देवविषयेऽप्युपलक्षणमेतत् केपलं जिनाज्ञारता भगवदादेशासक्ता गुरवो धर्मार्थ धर्मनिमित्तमङ्गीक्रियन्ते इति शेषः । उपलक्षणत्वाद्रागद्वेषरहितं देवमा. तोक्तं च धर्ममङ्गीकर्म इति इति गम्यम्, शेषान् कुगुरु-कुदेव-कुधर्मान् प्राकृतत्वाविभक्तिकोपो द्रष्टव्यः । व्युत्सृजामः त्यजामः सदोषत्वेन सदुपेक्षा कुप इत्यर्थः । अथवा 'मूलं निणिंददेवो'इति गाथया जिनस्य तद्वचनस्य मुगुरोधाश्रयणीय MAHARASHTRA १२ For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy