________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक11 26 11
४
१२
www.kobatirth.org
न्ति अज्ञातगुणदोषविभागास्तु परमार्थतो गुणिषु द्वेषिण एव । गुणेष्वनादरात् । यदि चेत्तेऽप्यज्ञातगुणदोषविशेषा अपि हुर्निश्वये ये मध्यस्था माध्यस्थ्यभाजः । ' ता ' तर्हि विषामृतयोस्तुल्यत्वं, कालकूटसुधारसयोः समानत्वं यतोऽज्ञागुणदोषविभागा हि मूर्खा मूर्खत्वं च मरणमेव किं मरणं मूर्खत्वमिति वचनात् । ततश्च कार्ये कारणोपचारान्मूर्खवकfear गुणदोषभेदानभिज्ञा विषतुल्याः विदितगुणदोषविभागास्तु किममृतमित्र युज्यते सदुपदेश इत्यादि, सदुपदेशगुणश्रवणादुपात्तसदुपदेशामृता अमृतकल्पा एव । मध्यस्था अपि त एव ये पक्षपात राहित्येन गुणदोषौ विज्ञाय तत्र प्रवृत्तिनिवृत्ती कुर्वन्ति । ततश्चाज्ञातगुणदोषभेदानामपि ज्ञातगुणदोषभेदवत् यदि माध्यस्थ्यं तदा विषामृतयोस्तुल्यत्वं प्रतीतमेवेति गुणानुराग एव माध्यस्थ्यमिति गायार्थः || २ || अथ गुणानुरागमेव दोषत्यागपूर्वं स्वाभ्युपगमव्याजेनोपदिशन्नाहमूलम् - मूलं जिनिंददेवो तव्त्रयणं गुरुजणं महासुयणं ।
सेस पावद्वाणं परमप्पाणं च वज्जेमि ॥ ३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
प्रकरणम् ॥ सटीकं०
व्याख्या- ' मूलेत्ति ' मूलं वृक्षबुध्नन्तदेवाश्रयणीयत्वान्मूळमाश्रयो यथा वृक्षमूलं वल्ल्यादीनामाश्रयः तथा मूमाश्रयो ममेति गम्यत । क इत्याह-- जिनेन्द्रदेवोऽर्हन् तथेत्यध्याहारस्तथा तद्वचनं जिनप्रणीतो धर्म इति यावत् । तथा गुरुजनो मुनिजनः, किं विशिष्टो ? महासुजनः, महासुजन इव महासुजनः । यथाहि -महासृजनः परोपकारैकनिष्टतया सर्वगुण सम्पन्नतया च सर्वजनहितो भवति । तथा यो गुरुर्यथोक्तचारित्रपालनेन सर्वजीवहित इति स च मूलमिति ६ ॥ ८८ ॥