________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
SAHASABASE
हितं तत्ततक्रियते तथा शुद्धधर्मदायकस्यापि सर्वद्धर्या सर्वसमुदायेनोपकारः कर्तव्यः । यतः-." सम्मत्तदायगाणं दु. प्पडियारं भवेसु बहुए । सव्वगुणमेलियाहि वि उवयारसहस्सकोडीहिं ॥ ३०१ ॥ जगति विचे नहु नैवान्यस्तत्समानो परः परमोऽस्तीति गम्यं । कुत एवमित्याह किमिति प्रश्ने कल्पद्रुमो देवतरुस्तत्सदृशः कल्प दुमसमान इतरतरुः सहकारबीजपूरराजादनचंपकाशोकबकुलतालहितालादिर्भवति कदापि कस्मिन्नपि काले अपि तु न कदापीत्यर्थः । अयमभिप्रायो यथा कल्पमो वाञ्छितार्थदानदक्षतया श्लाध्यस्तथान्ये दुमाः सरसमुगन्धसुरूपफलपुष्पदायिनोऽपि न श्लाघ्याः स्युः, किं पुनः कर्कशकटुकण्टकाः कर्कन्धुकरीरादयः । एवं यः सम्यक्त्वं शुद्धतम ददाति, न तत्समा अन्येऽपि तदपेक्षया शुद्धमार्गोपदेष्टारः किं पुनर्ये कुमार्गदेशका इति गाथार्थः॥१०१॥ नत्वशुद्धधर्मभाषिपेक्षोका शुधर्मदातृषु च रागः कर्त्तव्यतयोक्तः पूर्वगाथादयेन ततश्च धर्मसाधनमाध्यस्थ्यं भवता निरस्तमित्याशङ्कयाह
मूलम-जे अमुणियगुणदोसा ते कहवि बुहाण हुंति मज्झत्था ।
जइ ते विहु मज्झत्था ता विस अमयाण तुल्लत्तं ॥ १०२॥ व्याख्या-ये केपि अमुणितावज्ञातौ गुणदोषौ यैस्तेऽमुणितगुणदोषाः। तत्र गुणा ज्ञानादयो दोषा अज्ञानायः तदन्तरं न जानन्ति । गुणान् दोषाश्च तुल्यतया पश्यन्तीत्यभिसन्धिा, ते कथं विबुधानां पण्डितानां भवन्ति जायन्ते मध्यस्था मध्यस्थतया सम्मता इति यावत् । मध्यस्था हि ते एव ये गुणिषु प्रीति वहन्ति दुष्टेषु घोपेक्षां कुर्व
SAMS
१०
For Private and Personal Use Only