________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्ठिशवक-14
॥ ८७॥
3 सटीक
मिकरणम् ।। मुच्यते ॥ २९८ ॥ येषां तु भिक्षाग्रहणभुक्तमेवमेकादशी प्रतिमा प्रतिपन्नानां ते तु श्रमणभूता एवोच्यन्ते । तस्याश्च सम्पति व्यवच्छिन्नत्वात् । यदुक्तं--" साहूण गोयरओ, वुच्छिन्नो दूसमाणुभावाओ। अजाणं पणवीसं सावगधम्मो य वोच्छिन्नो ॥ २९९ ॥ श्रावकधर्मश्चात्र प्रतिमारूपो ज्ञेयः, सतश्च सम्प्रत्यपि यत् श्रावकेभ्यो भिक्षा ग्राहयन्ति तदागमबाधितम् ।नमु तर्हि किमर्थ ते आगमविहीन क्रियास्फटाटोपं साधयन्तीत्याह-मुग्धानामज्ञानानां रञ्जनार्थ रागोत्पादनाथ मुग्धा ह्येवंविधया क्रिययाऽस्मासु रज्यतामिति बुद्धया, तथा शुद्धानामागमोक्तार्थाभिधायिनां हीलनार्थम् । एते ोकेन्द्रियादिविराधनां पूजया कारयन्तीत्यसयता इत्यादिरीत्या तेषां निन्दार्थ । एवं च तेषामागमातिरिक्तं क्रियाडम्बरं कुर्वतां प्रत्युतक्लेश एव--यदुक्तं-अप्पागमो किलिस्सइ, जइ वि करे अइदुक्करपि तवं । सुंदरबुद्धीए कयं बहुं पि न सुंदर होइ ॥ ३०० ।। तत्करणे चाज्ञाभङ्गः प्रतीत एवेति गाथार्थः ॥१००॥ एवं स्थितेऽपि सति किमित्याह
मूलम्-जो देइ सुद्धधम्म सो परमप्पा जयंमि नहु अन्नो।
किं कप्पदुमसरिसो इयरतरू होइ कइया वि ॥ १०१॥॥ व्याख्या-'जो देइत्ति' यः कोऽपि साध्वादिददाति प्रयच्छति शुद्धधर्म सिद्धान्त विधिनोक्तं जिनोक्तं धर्म, स. परमात्मा परमात्मेव परमात्मा परमप्राणभूतोऽत्यन्तवल्लभः सर्वोपकारार्ह इत्यर्थः । यथा हि परमात्मनः सर्वं यद्यदी
For Private and Personal Use Only