________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
पष्ठिशतक
प्रकरणम्॥
किऽपि नास्ति
॥८॥
संस्कृतानुवाद:
ल्पाः । छ द्विषभराणामिव कुर्वन्ति करुणां द्विजिह्वानाम् ॥ ६३ ।। गृहव्यापारविमुक्तः बहुमुनिलोकेऽपि नास्ति सम्यक्त्वं । आलम्बन निरतानां श्राद्धानां प्रातः! किं भणामः ॥ ६४ ॥ न स्वयं न परं को वा यदि जीव उत्सूत्रभाषणं विहितम् । तहिं मुडसि निभ्रान्तं निरर्थकं तपस्फटाटोपम् ॥ ६५ ॥ यथा यथा जिनेन्द्रवचनं मम्यक् परिणमति शुद्धहृदयानाम् । तदा तदा लोकप्रधाहे धर्म प्रतिभाति नटचरितम् ॥ ६६ ॥ येषां जिनेन्द्रो निवसति सम्यक् हृदये शुद्धज्ञानेन । तेषां तृणं च विराजति स मिथ्यात्वधर्मो जनः सकलः ॥ ६७ ॥ लोकप्रवाहसमीरणः उद्दण्डप्रचण्डचण्डलहरू । दृढसम्यक्त्वमहाबलरहिता गुरुका विचलन्ति ॥ ६८ ॥ जिनमतलवहीलया यदुःखं प्राप्नुवन्ति अज्ञानी ज्ञानिनां तत् स्मृत्वा भयेन हृदयं थरथरायते ॥ ६९॥ रे जीव ! अज्ञानिनां मिध्यादृष्टीनां पश्यसि कि दोषान् । आत्मानमपि किं न जानासि ज्ञायते कष्टेन सम्यक्रवम् ॥ ७० ।। मिथ्यात्वमाचरन्तोऽपि ये इह वाञ्छति शुद्धजिनधर्मम् ते ग्रस्ता अपि ज्वरेण भुक्तं इच्छन्ति । क्षीरादिम् ॥ ७१॥ यथा काश्चित् सुकुलषध्वः शीलं मलिनयन्ति लान्ति कुलनाम | मिथ्यात्वमाचरन्तोऽपि वहन्ति तथा सुगुरुसत्कत्वम् ॥ ७२ ॥ उत्सूत्रमाचरन्तोऽपि स्थापयन्ति आम्मानं सुधाषकत्वे । ते रौद्ररोरनस्ता अपि तोलयन्ति सदृशं धनाढ्यैः ॥ ७३ ॥ केऽपि कुलक्रमे रक्ताः केऽपि रक्ताः शुद्धजिनवरमते । इति अन्तरे पश्यत मूढा न्याय न जानन्ति ॥ ७४ ॥ सङ्गोऽपि येषां अहितः तेषां धर्मान ये प्रकुर्वन्ति । मुक्या चौरसबै कुर्वन्ति ते चोरिको पापाः ।। ७५ ॥ यत्र पशुमहिषलक्षाः पर्वणि हन्यन्ते पापनयम्यां । पूजयन्ति तमपि श्राद्धा हा हीला वीतरागस्य ॥ ७६ ॥ यो गृहकुटुम्बस्वामी सन् मिथ्यात्परोपणं करोति । तेन सकलोऽपि वंशः प्रक्षिप्तो भवसमुन्द्रे ॥ ७७ ॥ कृण्डचतुर्थीनवमी द्वादश्यां पिण्डदानप्रमुखानि । मिथ्यात्वभावकानि कुर्वन्ति तेषां
X40
For Private and Personal Use Only