SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra षष्टिशतक ॥ ८६ ॥ ४ ८ १२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मूलम् - किरियाइफडाडोवं श्रहियं साहति आगमविहूणं । मुद्धाण रंजणत्थं सुद्धाणं हीलणट्टाए ॥ १०० ॥ orror - ' किरिया ' इत्यादि क्रियाया धर्मानुष्ठानरूपायाः स्फटाटोपमिव स्फटाटोपमाडम्बरमित्यर्थः । अधिकं स्वमतिकल्पनाघटनया सूत्रोक्तादतिरिक्तं साधयन्ति प्ररूपयन्ति केऽपीति गम्यम्, यथा पुष्पदीपनैवेद्यादिभिर्भगवत्पूजा न विधेया हिंसाहेतुत्वात् । तथा निष्कारणमपि यथा कथञ्चिदविधिना विधिना वा सामायिकादिकरणीयमेव । तथा । त्रिविधाहारप्रत्याख्यानेऽपि जलत्यागेन स्वादिग्रहणं कार्यम्, तथा श्रावकेणापि षट्पदिकारक्षायै मुण्डितमस्तकेन भाव्यम, विधजीव निकायषधभीरुणा श्राद्धेनापि पञ्चग्रास्यादिप्रकारेण भिक्षा ग्राह्या इत्यादिरूपं । कीदृशमित्याह-आगमविहीनं आगमानुक्तं आगमविहीनता चैवं पुष्पैः श्रीवज्रस्वामिना भगवता स्वयमाहृतैः पूजा कारिता श्रूयते च" माहेसरीइ सेसा पुरियं नीया हुयासणगिहाओ । गयणयलमो वहत्ता वइरेण महाणुभावेण ॥ २९३ ॥ इति । ततश्च पुष्पपूजै केन्द्रिय विराधना हेतुत्वेऽपि द्रव्यपूजाधिकारिणा सावधान्तरविनिवृत्यर्थं सम्यक्त्वशुद्धयर्थं युज्यमानापि यदनुचिता स्वच्छन्देः कैश्चिदुच्यते । तदागमाधिकं एवं नैवेद्यदीपाद्यपि गीतार्थाचीर्णमपि निषिध्यते तदप्यागमहीनं । तथा सत्यपि सामर्थ्यं किमपि कदालम्बनमादाय सामायिकादीनामविविना करणे मिध्यात्वम, यतः- उपदेशमालायां गाथा ॥ ५०४ ॥ " जो जहवायं न कुणइ मिच्छद्दिट्ठी तओ हु को अन्नो । वड्ढेह य मिच्छत्तं परस्स संकं For Private and Personal Use Only प्रकरणम् ॥ सटीकं० ॥ ८६ ॥
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy