________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दुनेन भवति माशाखण्डनेन यदुक्त
पष्ठिशतक॥८५॥
प्रकरणम् ॥ सरीक.
AASUSARAISA
ग्योजित एव आज्ञाभङ्गेन आदेशखण्डनेन भवति मरणदुःख । ते हि खण्डिताझं स्वसेवक मारयन्तीति प्रतीतं । किं पुन- द्र त्रिलोकमभोत्रिभुवननायकस्य जिनेन्द्रदेवाधिदेवस्याजाखण्डनेन मरणदुःखं भवतीति वाच्यम् । जिनाझा येवं--यद् गीतार्थाचार्यपरम्परागतोऽर्थः स्वच्छेकबुदया नाप्रमाणयितव्यः । यदुक्तं-श्रीसूत्रकृदङ्गनियुक्तौ-." आयरियपरंपरएण आगयं जो उ छेयबुद्धीए । कोवेइ च्छेयवाई जमालिनास स नासिहिई ॥ २९० ॥ यदि छेकवादी कश्चित्तं न प्रमाणयति तथा तेन तीर्थकराज्ञा खण्डिता भवति । तत्खण्डनाचानन्तानि मरणानि प्राप्नोति । एकमरणस्य तु किं वाच्यमिति गाथार्थः ॥ ९८ ॥ ननु धर्मोधतानां जीवहिंसाविरतानां जिनादेशाफरणेऽपि को दोष इत्याशङ्कयाह
मलम्-जगगुरुजिणस्त वयणं सयलाण जियाण होइ हियकरण ।
ता तस्स विराहणया कह धम्मो कह णु जीवदया ॥ ९९ ॥ १ "आयरियपरंपरपण" आचार्याः-सुधर्मस्वामिजम्बूनामप्रभवायरक्षिताचाः संविग्नगीतार्थाः तेषां प्रणालिकापारंपर्य तेनागतं यदर्थ-या व्याख्यानं तत् यस्तु कुतर्कदमातमानसो मिथ्यात्वोपहतष्टितया 'छेयबुद्धिप' रछेकबुद्धचा निपुणबुद्धधा कुशाग्रीयशेमुषीकोऽहमिति कृत्वा कोवे' कोपयति दूषयति- अन्यथा तमर्थ सर्वज्ञप्र. णीतमपि व्याचष्टे-कृतं कृतमित्येवं अयात् । स एवं 'छेयवाई छेकवादी निपुणोऽहमित्येवंवादी पण्डिताभिमानी 'जमालीनास' जमालिनाश- जमालिनिन्हववत् सर्वज्ञमतविगोपकः 'णासिहिति विनश्यति अरहघंटीयन्त्रन्यायेन संसारचक्रवाले बंभ्रमिष्यतीत्यर्थः ॥
॥ ८५॥
For Private and Personal Use Only