SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra एतदुक्तानुष्ठानातसुधादिसूत्रकार, दुःखान्यशर्माणि चेष्टते भाषन्ते च। ऽधमा जघन्या नीचा इत्यर्थः । पुनस्तानेव विशिनष्टि छलिता भ्रान्ति प्रापिताऽभिमानमोहभूतैः तत्राभिमानोऽभिनिवेशो मोहोऽज्ञानं ते एव भूताविव भूतौ व्यन्तरविशेषौ ताभ्यामभिमानमोहभूताभ्यां प्राकृतत्वादू बहुवचनं क्रिययाऽनुष्ठानेन हीलयन्त एतदुक्तानुष्ठाननिराकरणेन हीलयन्त इत्यर्थः । अथवा क्रियया पाठलक्षणया पाठकरणेन हीलयन्तः किल किमेतत्पठ्यते नहोदं गौतमसुधर्मादिसूत्रकारकृतं, किं तर्हि येन तेन वा पाश्चात्येनाविदितशीलेन कृतमिति किमेवं विधाप्रमाणभूतपउनेनेति हीळयन्तो । ही ही इति खेदे, दुःखान्यशर्माणि न गणयन्ति भावीन्यनन्तानि दुःखानि न जानन्तीत्यर्थः । तथा हि-भूतच्छलिता भाविनमपायमचिन्तयन्तो यथा तथा चेष्टते भाषन्ते च । तथाऽभिमानमोहभूतच्छलिता भवदुःखान्यगणयन्तः श्रीउपदेशमालादीनि हीलयन्ति । नत्वेवं जानन्ति यत्सर्वश्रमणसंङ्घसम्मतगीतार्थसंविग्नाचार्यकृतानि प्रकरणान्यपि सिद्धान्तप्रायाण्येवान्यथा तत्कृतानामनङ्गीकारे सङ्ग्रहणीकर्मप्रकृत्यादिग्रन्यानामप्य प्रामाण्यं स्यात्ततश्च तहीलने परमार्थतो भगवडीलैव । एतद्धीळया च दुःखं भवतीत्यत्रैवोक्तं प्राक् जिणमयलबहीलाए इत्यादिनेति गाथार्थः ॥ ९७ ॥ ननूपदेशमाळादिहीलनेन.कुतो दुःखं भवतीत्याह मूलम्-इयराण ठकुराण वि आणाभंगेण होइ मरणदुहं । किं पुण तिलोयपहुणो जिणिंददेवाहिदेवस्स ॥ ९८ ॥ व्याख्या-' इयराणेत्ति' इतरेषामपि कतिपयग्रामस्वामिनामपि ठक्कुराणां राज्ञामपि शब्दो भिन्नक्रमः स च प्रा For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy