________________
Shri Mahavir Jain Aradhana Kendra
१२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दनं तथा । प्रतिपन्नक्रिया वेति कुलधर्मानुपालनम् ॥ २७९ ॥ असद्व्ययपरित्यागः स्थाने चैतत्क्रिया सदा । प्रधानकार्ये निर्बन्धः प्रमादस्य विवज्र्जनम् ॥ २८० ॥ लोकाचारानुवृत्तिश्च सर्वत्रौचित्यपालनम् । प्रवृत्तिर्गर्हितेनेति प्राणैः कण्ठगतैरपि ॥ २८९ ॥ इत्यादिरूपः शुद्धकुळधर्मस्तत्र जाता अपि क्षत्रियब्राह्मणवणिगादीश्वरकुलोत्पन्ना अपिः सम्भावने, गुणिनः संवेगादियुक्ता न रमन्ते न रतिं कुर्वते । सुगुरूपदेशे श्रवणानन्तरः प्रमादस्थान इति गम्यम् । किं तहिं कुर्वन्तीत्याह--लान्ति गुण्हन्ति जिनदीक्षां द्वितीयपश्चाशकोक्तविधिना सम्यक्त्वप्रतिपत्तिक्षण, पञ्चाशके हि जिमदीक्षाशब्देन सम्यक्त्वमतिपत्तिरुक्ता । ततस्तस्या जिनदीक्षाया अपि परमतत्वं सर्वविरतिलक्षणं परमतत्वतां च सर्वविरतेरक्षेपेण मोक्षसाधकतमत्वात् लान्तीति सम्बध्यते । यदुक्तं - पश्चाशक द्वितीयस्य गाथा ४२ इय कल्लाणी एसो कमेण दिक्खागुणो महासत्तो । सम्मं समायरंतो पावइ तह परमदिवखं पि ॥ [ व्याख्या - इति उक्तन्यायेन सम्यग्दीक्षाऽधिकृतगुणवृद्धयादि तल्लिङ्गमाप्तिलक्षणेन कल्याणी कल्याणवान् लोकयेत्यर्थः । दीक्षागुणान् जिमदीक्षाधर्मान् जिनसाध्वागमभक्तिमभावनादीन् समाचरन्निति योगो, महासवो महानु भावः सम्यग्भावसारं समाचरन्नासेवमानः प्राप्नोति लभते तथेति फलान्तरसमुचयार्थः । परमदीक्षामपि सर्वविरतिदीक्षामपि न केवलं कल्याण्येव भवतीत्यपि शब्दार्थः । अथवा इति कल्याणी सन्नेष प्राप्नोति तथा परमदीक्षामपि यथेतदीक्षां प्राप्त इति हृदयं शेषं तथैवेति गाथार्थः ॥ ४२ ॥ ] ततोऽपि परमतत्वात् सर्वविरतिलक्षणादुपचारतो मोक्षो मोक्षारोपो जीवन एव मोक्ष इत्यर्थः तदुक्तं निर्जितमदमदनानां वाकायमनोविकाररहितानाम् । विनिवृत्त पराशा
11
CE
For Private and Personal Use Only