________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
53
व्याख्या-'जंज जिणेत्ति' यद्यदेव देवपूजां वन्दनकादिकं धर्मकृत्यं जिनाज्ञायां वर्तत इति गम्यते तदेव मन्यतेऽभ्युपगच्छति । न मन्यते नाभ्युपैति शेषं जिनाज्ञारहितं परतीर्थिकप्रणम्नादि । यदुक्तं--परत्तित्थियाण पणमण उम्भावणथुणणभत्तिरागं च । सक्कारं सम्माण दाणं विणयं च वज्जेइ ॥ २७१॥ यत एव च जिनाज्ञारहितं न मन्यते अत एव जानाति वेत्ति किमित्याह--लोकप्रवाहे गतानुगतिकारूपे अनुश्रोतो मार्गरूपे वा नहुनैव तत्वं शुद्धधर्मरूपं, शुद्धधर्मरूपस्य हि तत्वस्य माया कपटानुवृत्तिभणितादिरूपाल्लोकप्रवाहाद्भिन्नत्वेनावस्थानात् ॥ तदुक्तं--धम्मम्मि नत्थि माया नय कवडं आणुवित्ति भणियं वा । फुडपागडमकुरिल्लं धम्मवयणमु. ज्जुयं जाण ॥२७२।। नवि धम्मस्स भडका उक्कोडा वंचणा य कवडं वा । निच्छम्मो किर धम्मो सदेव मणुया सुरे लोए ।। २७३ ।। स तादृशः चकारोऽवधारणे तेन स एव नान्यस्तचवित धर्मस्वरूपवेदिता अयं भावः-- पजिनाज्ञायां वचते तदेव मन्यतेऽन्यत्र मन्यते कोकप्रवाहे च तत्त्वं नास्तीति जानाति यः स एव तत्त्वविनापर इति | गाथार्थः ॥ ९२ ॥ अथ ये तत्त्वज्ञानसामग्रयां सत्यापि तत्वं न विदन्ति तदोषदर्शनद्वारेण तानेवाह--
मूलम-साहीणे गुरुजोगे जे नहु निसुणंति सुद्धधम्मत्थं ।
ते धिट्ठदुट्ठचित्ता यह सुहडा भवभयविहुणा ॥ ९३ ॥ व्याख्या--'साहीणेत्यादि ' स्वाधीने आत्मा यत्ते गुरुयोगे सद्गुरुसंसर्गे ये केऽपि निविडममादमदिरालुप्तचै
+
For Private and Personal Use Only