________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
CASSISMS
स्वार्थ , न पुनर्जीविताथै सम्यक्त्वमिति गाथार्थः ॥ ८७ ॥॥ ननु यदि सम्यक्तवं हारितं दुर्लभ तर्हि भवतु नाम किं । तेन सताऽसता च फलमित्याशझ्याह
मूलम-गयविहवावि सविहवा सहिया सम्मत्तरयणराएण ।
सम्मत्तरयणरहिया सते वि धणे दरिदत्ति ॥ ८८ ॥ व्यख्या-‘गयविहेत्ति' गतविभवा अपि नष्टसर्वस्वा अपि, आस्तां सधना अल्पधना वा सविभवा सद्रव्याः के | इस्याह-सहिता युक्ताः सम्यक्त्वरत्नराजेन सम्यक्त्वचिन्तामणिना चिन्तामणित्वं चैहलौकिकपारलौकिककल्याणहे
तृत्वात् । तदुक्तं--"कल्लाणपरंपरयं लहंति जीवा विशुद्धसम्मत्ता । सम्मईसणरयणं नग्घा ससुरा सुरे | कोए ॥ २६१ ॥ एतत्सहितानां चोत्तरकालेऽवश्य विभवलाभात भाविनि भूतबदुपचारात अविभवानामपि सविभवत्वम् । अथवा सम्यक्त्वरत्नरागेन सम्यक्त्वरत्ने रागः सम्यक्त्वरत्नरागस्तेन सम्यकत्वरत्नप्रीत्येत्यर्थः। सम्यक्त्वरत्नरहिताः पुनरिति गम्यते सत्यपि विद्यमानेऽपि धने विभवे दरिद्रा निधना उत्तरकाले सम्यक्त्वरहितानां धनस्यावश्यनाशसद्भावात् तत्कालेऽपि दरिद्रतैव व्यपदिश्यते । अक्षिप्तेऽपि मद्ये उत्तरकाले क्षेप्तव्यमद्ययोगान्मद्यभाण्डमिति व्यपदेशवत् इति शब्दो वचनसमाप्त्यर्थ इति गाथार्थः ॥ ८८ ॥ यत एव सम्यक्त्वचिन्तामणिसहितो गतविभवा अ. पि सद्विभवा अत एव ते सम्यक्त्वशुद्धयधिकारे दीयमानां धनकोटीमपि नेच्छन्तीत्याह
UA
For Private and Personal Use Only