SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४ १२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भणन्नेवं प्राञ्जलिः स सुरोत्तमः । वन्दमानः पदद्वन्द्वं क्षपयामास तं तदा ॥ २० ॥ उभे कुण्डलयुग्मे च ददौ तस्मैस निर्जरः । सूर्यबिम्वाधिकज्योतिः प्रणाशिततमोभरे ॥ २१ ॥ पुनः प्रणम्य तं भक्त्या श्रमणोपासकोत्तमम् । यथास्थानं ययौ देवो मनसा तद्गुणान्वहन् ॥ २२ ॥ ज्ञात्वा निरुपसर्गं तु सोऽपि श्रीभरहन्नकः । कायोत्सर्ग पूर्णसन्धः पारयामास पुण्यवान् ॥ २३ ॥ ततस्ते वणिजः सर्वे तुष्टुवुस्तं गुणाधिकम्। त्वत्प्रसादाद्वयं तीर्णा आपदन्दुस्तरामिमाम् ।। २४ ।। अयानुकूलपवनप्रेरितं तद्बहित्रकम् । पापवारिनिधेस्वीरं संसारस्येव केवली ।। २५ ।। पोवोत्तारास्पदं प्राप्यो - तारयामासुराशु ते । पोतं ततश्च वस्तून्यु--चार्य श्राक् शकटेऽक्षिपन् ॥ २६ ॥ आपूर्णशकटास्तेऽथ जग्मुः भी. मिथिलापुरी | लक्ष्म्यर्जनाय नो यान्ति वणिजः कुत्र कुत्र वा ॥ २७ ॥ तत्र श्रीमल्लिजनकः कुम्भनामा महीपतिः । वदा पालयति प्राज्यं राज्यं शक्रपराक्रमः ॥ २८ ॥ ते तस्य प्राभृतीचक्रुस्तयोः कुण्डलयुग्मयोः । एकं युग्मं प्रभूतेन प्राभृतेन समन्वितम् ||२९ ॥ श्रीकुम्भेन प्रसन्नेनो-च्छुल्कास्ते विहितास्तदा । निःशङ्कं विविधं वस्तु विक्रीणन्ति चलान्ति च ॥३०॥ दिव्यं कुण्डलयुग्मं तच्छ्रीमल्ल्यै कुम्भभूभुजा । व्यतारि परिधानाय विश्वविस्मयकारकम् ॥ ३१ ॥ छधलाभाचारहन्नकाथास्ते वणिजोऽखिलाः । पुनस्तथैव तेनैवाध्वना चम्पापुरीं ययुः ॥ ३२ ॥ दर्षवाद्यान्यवार्थत-मङ्गलान्यक्रियन्त च । कुशलेन समेतानां तेषां बन्ध्वादिभिस्तदा ॥ ३३ ॥ एकीभूयारहनाथा - श्रन्द्रच्छायस्य भूभुजः । द्वितीयं कुण्डलयुगं स प्राभृतमढौकयन् ॥ ३४ ॥ सोऽपि तुष्टश्चकारैषा-मुच्छुकं वणिजां ततः । सर्वे ते स्वस्वसदनं जमुभसमन्विताः ।। ३५ ।। कुण्डलानां च वृत्तान्तो महानग्रेऽपि विद्यते । स मल्किज्ञाततो ज्ञेयो नोक्तोऽत्रानुपयोगतः For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy