________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पष्ठिशतक
KIRATSWERS
में भागुक्तस्वरूपे मुविहितगुरुपाचप्रतिपन्नसाधश्रावकवता गीती वा सन्मार्गे गच्छन्तीति तानाश्चर्य, यदित्युपप्रदर्शने,
1/पकरणम् ॥ पुनविशेषे यत्पुनरुन्मार्गनाताः पार्थस्थादिमार्ग साधुत्वेन श्रावकत्वेन वा निष्पन्नाः, मार्गे शुद्धविधिरूपे गच्छन्ति यान्ति सटीक कुमार्गाभिनिवेशत्यागेन । तच्चोध-चित्रं उन्मार्गजातानां हि सन्मार्गगमनं महते कौतुकाय यतस्ते प्राय उन्मार्ग न त्यजन्ति । उन्मार्गभावनयाऽन्य तंभावितत्वेन यच्च ताशा अपि मार्ग प्रतिपद्यते तदाश्चर्यमिति गाथार्थः॥८॥ ननून्मागजातानां सन्मार्गगमने किमित्याश्चर्यमित्याशंकानिरासाय च तद्दोषान् स्पष्टयन्नाह
मूलम्---मिच्छत्तसेवगाणं विग्यसयाई पि बिंति नो पावा ।
विग्घलवंमि पडिए दढधम्माणं पणचंति ॥ ८४ ॥ व्याख्या-'मिच्छत्तसेवेत्ति' मिथ्यात्वसेवकानां जिनोक्तमान्यमार्गाराधकानां विघ्नशतान्यपि प्रत्यूहशतान्यपि, आसतां द्वित्रा विघ्ना इत्यपेरर्थः । जायमानानि दृष्ट्वेत्यध्याहारः 'वितति' ब्रुवते वदन्ति नो नैव किविघया अधुनाऽस्यायं धनहानिरपत्यत्वादिको विघ्नो जात इत्यादि पापा उन्मार्गजाताः । तर्हि किं कुर्वन्तीत्याह-- विघ्नलवेऽपि प्रत्यूहलेशेऽपि पतिते जात इत्यर्थः । दृढधर्मणां निश्चलसम्यक्त्वानां प्रनृत्यन्ति प्रकर्षण हृष्टचिताः सन्तो नृत्यन्ति । इदमुक्तं भवति उन्मार्गजाता हि मिथ्यात्वं गोत्रदेवतापूजाप्रभृतिकुर्वता दारिद्रयदौर्भाग्यरोगशोकापत्यवियोग. सुतानुत्पत्तिदुष्टसम्बन्धराजबन्धनहरणादिविघ्नशतानि जायमानानि दृष्ट्वापि नहि किश्चिद् अवते, यथाऽस्यैतद्देवीपूजादि |
For Private and Personal Use Only