________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तं पुनः दुर्विज्ञेयं अत्युत्कट पुण्यरहितानाम् ॥ १५ ॥ सर्वमपि विज्ञायते, लभ्यते तथा चतुरिमा जनमध्ये | एकमपि भात ! दुर्लभं जिनमतविधिरत्नसुविज्ञानम् || १६ || मिथ्यात्वबहुलतायां विशुद्धसम्यक्त्वकथनमपि दुर्लभम् । यथा वरनरवरचरितं पापनरेन्द्रस्य उदये ॥ १७ ॥ बहुगुणविद्यानिलयः उत्सूत्रभाषी तथापि मोक्तव्यः । यथा वरमणियुक्तोऽपि हु: (पव) विघ्नकरः विषधरः लोके ॥ १८ ॥ स्वजनानां व्यामोहेन लोका गृह्यन्ते अर्थलोभेन । नो गृह्यन्ते सुधर्मेण रम्येण द्दा (?) मोहमाहात्म्यम् ॥ १९ ॥ गृहव्यापारपरिश्रमखिन्नानां नराणां विश्रामस्थानम् । एकेषां भवति रमणी अन्येषां जिनेन्द्रबरधर्मः ||२०|| तुल्येऽपि उदरभरणे मूढामूढयोः प्रेक्षस्व विपाकम् । एकेषां नरकदुःखं अन्येषां शाश्वतं सुखम् ॥ २१ ॥ जिनमतकथाप्रबन्धः संवेगकरः जीवानां सर्वोऽपि । संवेगः सम्यक्त्वे, सम्यक्त्वं शुद्धदेशनया । तस्मात् जिनाशापरेण धर्मः श्रोतव्यः सुगुरुपार्श्वे । अथ औचित्यातिक्रमेण श्राद्धात् तस्योपदेशकथकात् ॥ २२-२३ ।। सा कथा स उपदेशः तज्जानं येन जानाति जीवः । सम्यक्त्वमिथ्यात्वभाव, गुर्वगुरु भाव, धर्मलोकस्थितिभावम् ॥ २४ ॥ जिनगुणरत्नमहानिधि लब्ध्वापि किं न याति मिध्यात्वम् । अथवा प्राप्तेऽपि निधाने कृपणानां पुनरपि दारियम् । स जयति येन विहितानि सांवत्सरिकचातुर्मासिकसुपर्वाणि । निर्बंधसानां जायते येषां प्रभावतः धर्ममतिः ॥ २६ ॥ नामापि तस्य अशुभं येन निर्दिष्टशनि मिथ्यात्वपर्वाणि येषां अनुषङ्गात् धर्मिणामपि भवति पापमतिः ।। २७ ।। मध्यस्थितिः पुनरेषा अनुषङ्गण भवन्ति गुणदोषाः । उत्कृष्टपुण्यपापाः अनुषङ्गेण न गृह्यन्ते ॥ २८ ॥ अतिशयप्रापितपापाः धार्मिकपर्वेषु तस्मात् अपि पापरताः । न चलन्ति शुद्धधर्मात् धन्याः केऽपि पापपर्वेषु ।। २९ ।। लक्ष्मीरपि भवति द्विविधा एका पुरुषाणां क्षपयति गुणद्धिंम् । एका च उल्लसन्ती अपुण्यपुण्यानुभावात् ॥ ३० ॥ गुरवो भट्टाः जाताः श्राद्धान् स्तुत्वा लान्ति दानानि । द्वौ-अपि
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir