SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir हन्यन्ते । तामपि पिशाची गोत्रसुरीयमस्मदीया इति कृत्वा तत्रैव रुधिरकईमे स्थिता स्पर्शस्याप्ययोग्यां तस्मिन्नेव दिनेऽन्यत्र गृहादौ वा स्थितां श्रावका नैवेद्यादिभिरर्चयन्ति पूजयन्ति, तदने दौकितं च तन्निःशुका भुअन्ते । सैषा वीतरागस्य निन्दा तैः कृता भवति । यया- अहो येऽमी श्रावका रुधिरमात्रदर्शनान्नश्यन्ति तेऽपि भट्टारिकायाश्चामुण्डा सत्यिकादेर्महिम्नाऽऽऋष्टा रुधिरपंकिलां भुवं पादाभ्यामाक्रमन्तः पूजनार्थमायान्ति तत एवं ज्ञायते नैतत्समो वीतराग इत्येवंविधहीलायाः कारणत्वात्त एव हीलकाः तस्मान्न तत्पूजा कर्तव्या इति गाथार्थः ॥ ७६ ॥ अथ यः कुटुम्बस्वामी भूत्वेदृशं मिथ्यात्वं प्ररूपयति तस्य दोषमाह मूलम-जो गिहकुटुंबसामी संतो मिच्चत्तरोवणं कुणइ । तेण सयलो वि वंसो पक्खित्तो भवसमुद्दम्मि ॥ ७७ ॥ व्याख्या-'जो गिहेत्ति' यः कश्चिदनिर्दिष्टनामा गृहं भार्यादिकुटुम्ब तयोः स्वामी सन् योगक्षेपकारकः सन् मिथ्यात्यरोपण मिथ्यात्वस्थापन, ययाऽद्य गं.त्रदेवताया इदमिदं नैवेद्य कर्तव्य मिदमुपयाचितकं कार्य विवाहमुण्डनादाघेतत्पूजनेऽयं विधिरित्यादि करोति विधत्ते । तेन गृहकुटुम्बस्वामिना सकल: समग्रोऽपि शब्दो भिन्नक्रमः स च वंशपदेन योज्यते । ततश्च वंशोऽप्यन्वयोऽपि,न केवलं स्वात्मैव प्रक्षिप्तो निक्षिप्तो भवसमुद्रे संसारार्णवे यतो मिथ्यात्वं विविधम त्रिविधेन श्रावकोऽपि प्रत्याख्याति । नत्वणुनतानीव द्विविधत्रिविधादिना । यदुक्तं-न करेइ सय मिच्छ न कार For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy