________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक॥ ६६ ॥
www.kobatirth.org
गम्यतेऽत्र च ज्ञानं सम्यक्त्वमाप्तिपूर्वमेवावगन्तव्यम् । कष्टेन दुःखेनोपदेश सहस्रदानरूपेण सम्यक्त्वं दर्शनं याथातथ्येनाच्छासनमित्यर्थः । ततोऽयं भावः, रे जीव ? अज्ञानिनां दोषान् किं पश्यसि यदमी सम्यक्त्वं न जानन्ति । जिनमतही नादात्मानमेव प्रतिपन्नजिनमतमपि तदुक्ताकरणेन हीलकं किं न जानासि यत् सम्यक्त्वं त्वयापि कष्टेन ज्ञायते ॥ अथवा " सर्वस्यात्मा गुणवान् सर्वः परदोषदर्शने कुशलः । सर्वस्य चास्ति वाच्यम्, न चात्मदोषान् वदति कश्चित् ॥ इति गाथार्थः ॥ ७० ॥ ननु किमिदमुक्तं यवमात्मानं किं न जानासीत्यादि यावदहं शुद्धं जिनधर्ममेव करोमि । परं लोकानुवृत्या कदापि गोत्रदेवी पूजा क्रमायातकुगुरुसेवादि करोमि नैतावता मम जिन मतहीलनादिको दोषः, सम्पत्स्यते इति पराशङ्कामुद्भन्य तां निराकर्त्तु सदृष्टान्तं परस्य मूढतामाह
मूलम् - मिच्छत्तमायरं त वि जे इह वंबंति सुद्धजिणधम्मं । ते घत्था विजरेण भुत्तु इच्छंति खीराई ॥ ७१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या--' मिच्छत्तमायेत्ति मिथ्यात्वं गोत्रदेव्यादि कुदेवपूजनपार्श्वस्यादिकुगुरूपासनाऽविधिधर्मसेवा लक्षणमाचरन्तोऽपि ये केप्यज्ञाना इह जगति वाच्छन्ति अभिलपन्ति शुद्ध जिनधर्म निर्मलाद्धर्मसम्यक्त्वमित्यर्थः । ते प्रस्ता अपि कवळीकता अपि ज्वरेण रोगविशेषेण भोक्तुमिच्छन्ति खादीतुं वाञ्छन्ति खीरादि आदि शब्दात् खण्डघृतपरि ग्रहः दुग्धखण्डघृतानीत्यर्थः । अयमभिप्रायो यथा ज्वरग्रस्तः क्षीरखण्डादिभोजनेन प्रत्युतापायमेव प्राप्नोति
For Private and Personal Use Only
प्रकरणम् ॥ सटीकं०
।।। ६६ ॥