________________
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
त्वपरपुरुषासम्म नाम शाभिधान
5-50
न तु कमपि गुणं । एवं मिथ्यात्वमाचरन् यः शुद्धमहडम चिकीपति । स प्रत्युताशातनालक्षणमपायमाप्नोतीति दोषस्तदवस्थ एवेति गाथार्थः ॥ ७१। मिथ्यात्वमाचरन्तोऽपि ये शुई धर्ममिच्छन्ति तदोपमेवाह
मूलम्-जह केइ सुकुलवहुणो सीलं मइलंति लिंति कुलनामं ॥
मिच्छत्तमायरंत वि वहति तह सुगुरुकेरित्तं ॥ ७२ ॥ व्याख्या-'जह केत्यादि ' यथेत्युपमायां काश्चित् पुंस्त्वनिर्देशोऽत्र प्राकृतत्वात, सुकुलवध्वः उत्तमकुलनार्यः | शीलं सदाचारं गुप्ताङ्गत्वसलज्जत्वपरपुरुषासम्भाषणत्वानुद्भटवेषत्वादिकं मलिनयन्ति दुश्चरितत्वादिना मलिनीकुर्वन्ति खण्डयन्तीत्यर्थः । लान्ति च गृहन्ति । पुनः कुलनाम वंशाभिधानं ययममुकक्षत्रियब्राह्मणश्रेष्ठिसार्थवाहादिकुलवध्वः एवं दृष्टान्तमभिधाय दार्शन्तिकयोजनामाह-'मिच्छत्त'ति मिथ्यात्वं कुदेवपूजोत्सूत्रभाषणादिकमाचरन्तोऽपि कुर्वतोऽपि वहन्ति । तथा तेन प्रागुपन्यस्तदृष्टान्तप्रकारेण 'सुगुरुकेरितति 'देशीभाषया सगुरुसत्कत्वम् इदमुक्तं भवति ॥ यथा-सुकुलवध्वः शीलं मलिनयन्त्यः कुलनाम च गृण्हन्त्यः कुलं कलङ्कयन्ति तथा साधुश्रावका अपि मिथ्यात्वं कुर्वन्तो वयं सगरोरमकस्य शिष्या इति, सुगुरुसत्कत्वं वहन्तो गुरूणामपभ्राजनां कुर्वन्ति । यथा अहो सुगुरुताऽमीषां येषामपदेशादेवं मिथ्यात्वं प्रवर्तते । यदि चैतद्गुरवी निवारयन्ति तर्हि कथममी तदुपासका मिथ्यात्वं कुर्वन्तीति मिथ्यात्वमाचरन्तोऽपि ये जिनधर्ममिच्छन्ति तेषां गुरुतराऽपभ्राजनालक्षणो दोष इति गाथार्थः ॥ तथा
कुदेवपूजोत्स
कसल
For Private and Personal Use Only