________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संज्ञाद्रुमाः, स्वर्ग छागवधाडिनोति च पितृन् विप्रोपभुक्ताशनम् । आप्ता छापराः सुराः शिखिद्रुतं प्रीणाति देवान् हवि-श्रेत्थं वल्गु च फल्गु च श्रुतगिरां को वेत्ति लीलायितम् || २३८|| तथा-" सव्वत्थ अस्थि धम्मो जा मुणियं जिण न सासणं तुम्ह । कणयाउराण कणगुब्वससियपथम लग्भमाणाणं ॥ २३९ ॥ इति गाथार्थः ॥ ६७॥ परिणत जिनवचनानां लोकप्रवाहधर्मो नटचरितमिव प्रतिभातीत्युक्तं, मागथ, तदिवरेषां यल्लोकप्रवाहाद् भवति तदाह- मूलम् -----लोयपवाहसमीरण उद्दंडपथंडचंडलहरिए ।
दढसम्मत्तमहाबल -- रहिया गुरुया विहल्लेति ॥ ६८ ॥
व्याख्या- 'लोयपवाहेत्ति' लोकानां विवेकवैकल्येन गतानुगतिकागतानां प्रवाहोऽनुथोतो रूपः स एव समीरणो वायुस्तस्योद्दण्डा उद्गतदण्डेव प्रचण्डा प्रौढा निविडा चण्डा रौद्रा या लहरीव कल्लोल इव लहरी वेगविशेषः, सा लोकप्रवाहसमीरणोद्दण्डप्रचण्डचण्डलहरी तथा करणभूतया प्रेरिता इति प्रस्तुतं दृढं निश्चलं तच्च तत्सम्यक्तवं च दृढसम्यक्त्वं भगचचनपरिणामरूपं तदेव महद्गुरुकं बलं सामर्थ्य तेन रहिताः, सम्यक्त्वबलेन दृढा हि समीरणलहय पर्वता इव देवैरपि न चाल्यन्ते । यतः--दहूण कुलिंगीणं तसथावरभुयमद्दणं विविहं । धम्माओ न चालिज्जइ देवेहिं सईदएहिं पि ॥ २४० ॥ गुरवोऽपि महान्तोऽपि कुळऋद्धिस्वभावाद्यपेक्षया महत्ववन्तोऽपि आस्तां लघव १ बोकडा.
२. मिथ्या.
For Private and Personal Use Only