________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
ति प्रस्तावाज्ज्ञेयम, उत्सूत्रभाषणेऽपि तपसा निस्तारो भविष्यतीत्याशङ्कयाह-निरर्थकमनर्थकं प्रस्तुतकार्यकरणाक्षम तप एव दुरनुष्ठेयत्वेन दुखित्वात् स्फटाटोप इव फणामण्डकमिव स्फटाटोपः तपः स्फटाटोपस्तं करोषीत्यध्याहार्यम् । अयमाशयः यथा-निर्विषस्य भुजंगस्य स्फटाटोपो निरर्थक, एवमुत्सूत्रभाषकस्य तपः स्फटाटोपो निरर्थक एवं तपः कार्यस्य संसारनिस्तारस्याभावात् । यदुक्तं-" कुणमाणोऽपि हु किरियं परिच्चयंतो वि सयधणभोए । दितो वि दुहस्सउरं मिच्छद्दिही न सिज्झइ य ॥२३६ ॥" मिथ्याष्टित्वं चोत्सूत्रभाषकस्य प्रागेवोक्तमिति गाथाधः ॥ ६५ ॥ एवमेषां जिनवचनं न परिणतं तत्स्वरूपमभिधायाधुना येषां तत्परिणतं तत्स्वरूपनिरूपणापाह
मूलम्-जह जह जिणिंदवयणं सम्म परिणमइ सुद्धहिययाणं ।
तह तह लोयपवाहे धम्म पडिहाइ नटचरियं ।। ६६ ।। ___व्याख्या-'जह जह जिणिदेत्ति' यथा यथा येन येन प्रकारेण जिनेन्द्रवचनं भगवदागमः सम्यगवैपरीत्येन प| रिणमति एकात्मीभूयविषयविभागतया चित्तेऽवतिष्ठति शुद्धहृदयानां निर्मलचित्तानां तथा २ लोकमवाहे गतानुगति. कारूपेऽविचारजपुरुषप्रवर्तिते धर्ममार्ग इति यावत् यं धर्मविधिरूपं कुर्वन्तीति शेषः। स धर्मः शुद्धहृदयानां नटचरितमिवात्रेव शब्दो लुप्तो द्रष्टव्यः, नाटकमिव प्रतिभाति स्फुरति । यथाहि-राधाकृष्णादिनाटके कृष्णादिरूपाण्यताविकान्येव स्युस्तथा कोकमवाहे धर्मोऽप्यतात्विक इति । परिणतजिनवचनानां प्रति जिनवचनपरिणतिहि भवरोगौ
CASE5555
ख
For Private and Personal Use Only