________________
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
॥ ६०॥
सटीक
AMAMALISA
प्रादिकं केनापि क्रियमाण दृष्ट्वा कर्तव्यमेतल्लक्ष्मीवतां गृहिणां। आवश्यके च प्रतिक्रमाणादौ निरपेक्षतया यथा कथञ्चित्क रणम् ॥ क्रियमाणे कथयत्येवमपि कुर्वतां लाभ एवेत्यादि तथा कुर्वश्च तदुन्मार्गसेवादाढर्योत्पादनेन 'कविला इत्थं पि इहयंपी'त्यादिवचनेनैव मरीचिवन्मिथ्यात्वं प्राप्नुयात् । तस्मादविधिप्रशंसा न कुर्यात् अस्मिन्नर्थे काक्वा दृष्टान्तमाह-किमित्याक्षेपे कुलवध्वः कुलाङ्गनाः कुत्रापि देशकालादौ वेश्याचरितानि वारविलासिन्याश्चरितानि, यथा सर्वत्रास्खलितप्रचाराः स्वैरविहारिण्या विविधविटोपभोगप्राप्तयौवनफला वैधव्यभयोज्झिताः स्वच्छनेपथ्यधारिण्यः सर्वाभरणविभूषिताः वेश्याः मुलब्धजन्मजीवितव्या इत्यादि स्तुवन्ति अपि तु न स्तुवन्ति । तत्स्तुतौ हि तासां सकलंकत्वप्रसङ्गात् ततो यथा कुलवध्वो वेश्याचरितानि न स्तुवन्ति तथा विवेकिनोऽप्यविधिप्रशंसां न कुर्युरिति गाथार्थः ।।५८॥ न न्वविधिमशंसा न कार्येति किमित्युक्तं जिनाज्ञाभंगरूपत्वात् तस्यास्तां च स्वयं जिनाबापडभीरवो न विधास्यन्तीत्यत आह
मलम्-जिण आणाभंगभयं भवसयभीयाण होइ जावाणं।
भवसय अभीरुयाणं जिणआणाभंजणं कीला ॥ ५९॥ व्याख्या-'जिणआणाइत्यादि' जिनाज्ञाभाभयं सर्वज्ञादेशभङ्गातङ्कः भवशतभीतानां बातशब्दोऽत्रोपलक्षणं तेनानन्तजन्मभीरूणां भवति जायते जीवानां प्राणिनां भवभीरवो हि "जह नरवइणो आण अइक्कमंता पमायदोसे ण । पावंति बंधवहरोहच्छिज्ज मरणावसाणाणि ॥१॥ तह जिणवराण आणं अइक्कमंता पमायदोसेणं । पावंति दु18॥ ६०॥
ASSASTE
4564G
For Private and Personal Use Only