________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक॥ ५९ ॥
www.kobatirth.org
षितेन भयं येषां ही ही इति खेदाधिक्ये तेषां नराणां मनुजानां दुःखान्यसातरूपाणि यदि मुणति यदि जानाति तर्हि जिननाथः सर्वज्ञो नान्यः तद्दुःखानामनन्तत्वात् अनन्तं वाऽनन्नज्ञानिन एवं जानन्ति नेतर इतिगाथार्थः ॥५६॥ अ येतरजनप्रशंसादृष्टानां उत्सूत्रभाषणाभीरूणां दुःखकारणमुपदर्श्य तत्यागोपदेशमाह -
मूलम् - उस्सुत्तभासगाणं बोहीनासो अणंतसंसारो ।
पाणच्चए वि धीरा उस्सुत्तं ता न भासति ॥ ५७ ॥
व्याख्या -' उस्सृत्त इत्यादि ' उत्सूत्रभाषकाणां बोधिनाशः प्रेत्य जिनधर्मप्राप्त्यभावः । तदुक्तं, उपदेशमालायां "फुडपागडमकहितो जहठियं बोहिलाभमुवहणइ । जह भगवओ विसालो जरमरणमहोयही आसि ॥ २२४ ॥ [व्याख्या--'फुडेत्ति' स्फुटं प्रकटं सत्यार्थ अकथयन् अभाषमाणः सन् यथास्थितं सत्यं बोधिलाभं आ गामिनि भवे धर्मप्राप्ति उपहन्ति नाशयति--यथा भगवतः श्रीमहावीरस्य मरीचिभवे विशालो विस्तीर्णः जरामरणरूपो
महोदधिमहासमुद्र विस्तर्णः आसीद् बभूव कोटाकोटी प्रमाणसंसारोऽवर्द्धत इत्यर्थ: "] बोधिनाशे वाऽनन्तसंसारः सकलनरकादिदुर्गतिदुःखदायी भवोऽनन्तो भवतीति प्रक्रमः यस्मादेवमुत्सूत्रं दारुणविपाकं चतुर्थपदोपात्तः ता शब्दोऽत्र सम्बध्यते-- ततः 'ता' तस्मात्प्राणात्ययेऽपि मरणेऽपि प्राप्ते धीरा बुद्धिमन्त उत्सूत्रं भगवद्वचनविरुद्धं न भाषन्ते न वदन्ति श्रीकालिकाचार्यवत् । यदुक्तं उपदेशमालायां-" जीयं काऊण पण तुरमणिदत्तस्स का
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ॥
सटीकं०
५९ ॥