________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
ॐ5CASS.
भवति लज्जा । तदुक्तं--स्वगुणश्रवणे लज्जान्यगुणाकर्णने रतिः । परोपकारव्यसनं स्वभावोऽयं महात्मनाम् ॥ २१६ ॥ तथा केनापि कमपि राजानं वर्णयताऽयमेवार्थः प्रत्यपादि, यथा--आबाल्याधिगमान्मयैव गमितः कोर्टि परामुन्नते-रस्मत्सकथयैव पार्थिवसुतः सम्प्रत्यसी लज्जते । इत्यालोच्य निजात्मजेन यशसा दत्तावलम्बोऽम्बुधे-र्यातस्तीरतपोवनानि भवतो वृद्धो गुणानां गणः ॥२१७।। ततश्च जानाम्यहं यद्यपि सन्तः स्वनामग्रहणेन लज्जन्ते । तथापि पुनर्विशेषे स चाग्रे योक्ष्यते तेषां सज्जनानां कीर्तनात् गुणकथनात् पुनरस्माकं गलन्ति नश्यन्ति कर्माणि ज्ञानावरणादीनि । गुणवत्पशंसायां हि क्रियमाणायां कर्मनिर्जरा स्फटैब । यदुक्तमागमे--किइ कम्मं च पसंसा संविग्गजगम्मि निजरठाए । जे जे विरइठाणा ते ते उववूहिया होति ॥ २१८॥ तथाऽन्यैरपि गुणवद्गुणकीर्तनादेव वाचां साफल्यमभ्यधायि । तदुक्तं-वाग्जन्मवैफल्यमसद्यशल्यं, गुणाधिके वस्तुनि मौनिता चेत् । स्खलत्वमल्पीयसि जल्पिते तु, तदस्तु बंदिभ्रमभूमितैव ॥ २१९ ॥ इति तेषां कीतिनं कुर्म इति स्वोपदेशेनान्येषामपि सत्कीर्तनोपदेश उक्त इत्यर्थः ॥ ५४ ॥ उक्तप्रसङ्गतः सद्गुणकीर्तनं निर्जराहेतु-18 तया धर्मकारणम् । अयाज्ञयैव क्रोधादिरहितेनात्मप्रशंसामनिच्छता धर्मः कर्तव्य इत्यभिधित्सुरस्यैव व्यतिरेकमाह
मलम्-आणारहियं कोहाइसंजुयं अप्पसंसणत्थं च ।
धम्म सेवंताणं नय कित्ती नेव धम्मो य॥५५॥
ॐOG
For Private and Personal Use Only