________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SHRESER
व्याख्या-तं जयेत्ति' तत् जयत्युत्कर्षेण वर्त्ततां पुरुषरत्नं पुरुषेषु मनुष्येषु रत्नमिव रत्नं तत् रत्नत्वं च प्र. धानत्वात् जाती जातौ प्रधानं यत्तत्तद्रत्नमिति कथ्यत इति वाक्यात् पुरुषरत्नस्य विशेषणद्वारेण प्राधान्यमेवाह--सुष्ठु शोभना गुणा सुगुणा औदार्यधैर्यगाम्भीर्यदाक्ष्यदाक्षिण्यविनयादयस्तैराढ्यं समृद्धं मुगुणाढ्यं ।। यदुक्तं-".वाञ्छा 8 सज्जनसङ्गमे परगुणे प्रीतिगुरौ नम्रता, विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद्भयम् । भक्तिश्चाहति शक्तिरात्मदमने संसर्गमुक्तिः खले,एते येषु वसन्ति निमलगुणास्तेभ्यो नरेभ्यो नमः ॥२१२ । यत एवं गुणाढयमत एव हेमगिरिवरमहाथ हेमगिरिवरो मेरुस्तद्वन्महामूल्य मेरुवन्महत्त्वान्मूल्यरहितमित्यर्थः । यथा मेरोलक्षयोजनमयस्य कनकगिरिन केनापि मूल्यं कर्तुं शक्यते । तथा तस्यापि गुणाढयत्वादिति भावः। तदिति' किमित्याह-यस्य पुरुषरत्नस्याश्रये आधारै सेवते आश्रयति सुविधिरतो विधिना धर्मकरणनिष्ठो जन इति प्रक्रमः । शुद्धजिनधर्म कदाग्रहादिमलकलङ्करहितं सर्वधर्ममिति यस्य चाश्रये शुद्धधर्मार्थिनस्त सेवन्ते तादृशस्य विरतत्वान्महार्थता । यदुक्तं-" मनसि वचसि काये पुण्यपीयूषपूर्णा--त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः । परगुणपरमाणून पर्वतीकृत्य नित्यं निजहदि विकसन्तः सन्ति सन्तः कियन्तः॥२१३॥ इति गाथार्थः ॥५२॥ पूर्वोक्तमेव पुन: समर्थयितुमाह
मूलम्- सुरतरुचिंतामणिणो अग्धं न लहंति तस्स पुरिसस्स ।
जो सुविहिरयजणाणं धम्माधारं सया देइ ॥ ५३ ।।
USUASSSS
For Private and Personal Use Only