________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नामुत्सूत्र भाषिणां यत्यादीनां क्रमो व्याख्याननन्यादिकरणाधिकारो नास्ति । किं तदुत्सूत्रमिति वेद, उच्यते - स्वमतिकल्पितमागमोत्तीर्ण तद्विसंवादि चानुष्ठानं यदाह - 'उस्मुत्तमणुवइ सच्छंदविगप्पियं अणणुवाइत्ति'कथं पुनरेवदुसूत्रं जिनसदने जायते । इति चेत् उच्यते-गृहिणा स्ववित्तेन देववित्तेन वा भाटकादिहेतुकदेवद्रव्यवृद्धये यद्देवनिमित्तं स्थावरादिनिष्पादन तथा महार्घानेहसि विक्रयेण बहुदेवद्रविणोत्पादनाय गृहिणा यद्देवधनेन समर्धधान्यसङ्ग्रहणं तथा यtena कूपवाटिकाक्षेत्रादिविधानं तथा शुल्कादिषु भाण्डमुद्दिश्य राजग्राह्यभागाधिककरोत्पादनादुत्पन्नेन द्रविणेन यद्गृहिणा देवपूजन विधान मित्थमेवमादीन्युत्सूत्रपदानि यतिदेशनया देवगृहेऽपि सम्भवन्ति । यदुक्तं- " उस्सुतं पुण इत्थं थावरपाओगकूवकरणाइ । उब्भूयगकरणाउप्पाथणाइ धम्माहिगारम्मि ॥ २०१ ॥ अत्र चादिशब्दान्निशि बलिनन्द्यादिग्रहः, तत्र स्थावरादिनिर्मापणादीनां षट्कायादिरम्भाऽसंयतवासादिना महासावद्यत्वेन देवनिमितं सिद्धान्तनिवारितत्वादुत्सूत्रं एतान्यन्तरेणापि च भक्तिमद्भिः स्वद्रव्यव्ययेन भगवत्सपर्यापर्यापणात् उद्भूत ककरोस्पादनस्य च व्यवहारिणामत्यन्ताप्रीतिजननादुत्सूत्रत्वं परामीतिमात्रस्यापि जैनमते भगवच्छ्रीमहावीरोदाहरणेन बहुधा निषेधात् । यदुक्तं- "धम्मत्थमुज्जएणं सव्वस्सापत्तियं न कायन्वं । इय संजमो विसेओ हत्थ य भयवं उदाहरणं ॥ २०२ ॥ सो ताव सा समाओ, तेसि अप्पत्तियं मुणेकणं । परमं अबोहिबीयं, तओगओहंतकाले वि ॥ २०३ ॥ निशि बलिनन्यादिकस्य चोत्सूत्रत्वं प्रागेव भावितम् तथा चैवमाद्युत्सूत्रभाषिणाम् । तत्र व्याख्यानाद्यधिकारेण यावदुत्सूत्रभाषिसन्तानं यावज्जिनगृहं च तद्देशनया तत्र प्रवर्त्तमानानां सन्तानक्रमेण प्रजायमाना
For Private and Personal Use Only