SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मर्थ्यं ताभ्यां द्विविधाभ्यां बलाभ्यां रहितो मा बसेः मा निवासं कुर्याः । ते शुद्धा निर्बलं तं सुगुरुसेवकं परिभवेयुरतिविषमत्वात् तेषां । यतः - विषधरतोऽप्यतिविषमः खल इति न मृषा वदन्ति विद्वांसः । यदयं न कुलद्वेषी सकुलद्वेषी पुनः पिशुनः ॥ १९९ ॥ तस्मात् स्वबलमपेक्ष्यैव तत्र वस्तव्यं, अन्यथा तत्र वासे तदुत्पादितभयाद्धभ्रंशः स्यादित्यर्थः ॥ ४८ ॥ तत्रावसने कारणमाह मूलम् -- समयविऊ असमत्था सुसमत्था जत्थ जिणमए अविऊ । तत्थ न बढइ धम्मो पराभवं लहइ गुणरागी ॥ ४९ ॥ व्याख्या- 'समयविऊत्ति' समयविदः सिद्धान्तसूत्रार्थज्ञायका असमर्थ्याः सामर्थ्यरहिताः सामर्थ्य राहित्यं च समयविदां क्वचित् क्षेत्रकालमहिम्नैव भवति ययोक्तमन्योक्त्या - " भेकेन क्वणता सरोषपरुषं यत्कृष्णसप्पनने, दातुं कर्णचपेटमुडतधिया हस्तः समुल्लासितः । यच्चाधोमुखमक्षिणी विद्धता तेनापि तन्मर्षितं, त. न्मन्ये विषमन्त्रिणो बलवतः कस्यापि लीलायितम् || १९२ ॥ अन्यथा तूत्सर्गापवादादिसकलनयस्वरूपविदां तेषां सर्वत्र सामर्थ्यमेव सुसमर्थाः, सामर्थ्यवतो यत्र क्षेत्रे काले वा जिनमतस्य सर्वज्ञशासनस्याविदो ज्ञायकाः तेषामपि सामर्थ्य कालादिदोषादेवान्यथा तु जिनसमयाऽवेदिनां निश्चयव्यवहाराकुशलानां कुतः सामर्थ्यावकाशः । अत एव ताशानामपि महमवलोक्य केनचित् सनिर्वेदमन्योक्तिरभाणि, तद्यथा- "प्रातः पूष्णा भवति महते नोपतापाय For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy