SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न चागमे सुखलिप्सया किञ्चित्सूत्रितं, किं तर्हि यावता बिना संयमज्ञानादियात्रा नोत्सर्पति, तावन्मात्रस्यैव विहितनिवारणस्य निवारित विधानस्य च भगवद्भिः पुष्टालम्बनेन कादाचित्कतया तत्रानुज्ञानात् । एवं च कथं श्रुतस्याव्यवस्थाभवन्मार्गस्य चौदेशिक भोजनादेः सर्वस्यापि सार्वदिकतया नित्रंशत्वेन केवलसुखानुभवोद्देशेनैव प्रवृत्तेः । तथा च तस्य महासावद्यत्वेन ज्ञानादियात्राहीयमाणत्वात् कथं प्रामाण्यमित्यहो अकलितगुणदोषविभागः स्वपक्षानुरागः खलानां यद्भगवन्मतस्याव्यवस्थापादनेन स्वमतस्योत्कर्षप्रदर्शन । नहि तेजसः सकाशात् कदाचितमस उत्कर्षसम्भव इति । किश्व तीर्थकर गणधर पूर्वधरादि सातिशयमहापुरुषविरहे सम्मति तत्सिद्धान्त एव नः प्रमाणम् । यदुक्तम्- " तो [नो] पिच्छामो सन्वन्नुणो सेयं न मणपज्जव जिणाई । नय चउदसदसपुविप्पमुहे विस्सुयसुयहरे वि ।। १५२ ।। एवं पि अम्हसरणं ताणं चक्खूगईपईवो य । भयवं ? सिद्धंतोच्चिय अविरुद्ध इट्ठदिहिं ॥ १५३ ॥ तस्य चप्रामाण्यानभ्युपगमे तत्प्रणेतुर्भगवतोऽप्यप्रामाण्याभ्युपगमप्रसङ्गेन भवतस्तन्मूळरजोहरणादि वेषपरित्यागापत्तिः । यदुक्तं - " आणाएच्चिय चरणं तभंगे जाण किन्न भग्गति । आणं च अइक्कतो कस्साएसा कुणइ सेसं ।। १५४ ॥ तथा चायं सुखाशया भवत्कल्पितः पन्था सकलोऽपि विशरारुतामापद्येतेत्यहो लाभमिच्छोर्नीत्या अपि संवृत्तः । यदपि रुग्विणः कल्पतां यान्तीत्यादिश्लोकवलेन स्वप्रकल्पितक्रियायाः सुकुमाराया मोक्षाङ्गत्वसमर्थन तदप्यसुन्दरं । तत एतच्लोकार्थ एवमागमे विधीयते ' मउईए वि किरियाए कालेणारोगयं जह उवेंति । तह चेव उ fasari जीवा सिद्धंत किरियाए ॥ १ ॥ त्ति', अत्र हि सिद्धान्तक्रियाया एव चिरन्तनमुनिक्रियापेक्षया कोमलाया For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy