SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दि, तत एतत्सर्वं सुगतिप्रापकं कुत्र । कुत्र च दुर्गतिनिबन्धनं कुगुर्वङ्गीकारलक्षणमिदमकार्य यतः- “उत्सूत्रोच्चयमूचुषः सुखजुषः सिद्धान्तपद्यामुषः, प्रोत्सर्पद्भवतापकापथपुषः सम्यग्दृशां विद्विषः । ये क्षुद्राः प्रति जा ते गुरुतया भूरीन् कुसूरीनहो । ते चुम्बन्ति सहस्रशः श्रमभरोदस्राश्चतस्रो गतीः ॥ १४४ ॥ " तस्मात् कुगुरवस्त्याज्या एवेत्यर्थः ॥ ३५ ॥ प्रागुक्तं गुरुकमकार्य स्वामी नास्तीत्यादि, सम्मति तु तदकार्यं कुगुरुसंसर्गलक्षण लघुकर्मता मुमुक्षुरपि कोऽपि दुर्विदग्धैर्निन्द्यत इति सखेदमिदमाह - मूलम् - सप्पे दिहे नासइ लोओ नहु कोइ किंपि अक्खे | जो चयइ कुगुरुसप्पं हा मूढा ! भणइ तं दुधं ॥ ३६ ॥ Acharya Shri Kailassagarsuri Gyanmandir व्याख्या--सर्पे भुजंगे दृष्टे दर्शनपथमवतीर्णे नश्यति पलायते लोको जनो “नहु " नैव कोऽपि योऽत्यन्तं परपरिवादपरः सोsपि तिष्ठत्वन्यः, किमपि क्लीवोऽयं कातरोऽयं यः सर्वे दृष्ट्वाऽपि नश्यतीत्यादिरूपं किञ्चिदपि स्तोकमपीत्यर्थः आख्याति कथयति तस्येति गम्यते । प्रत्युत पुण्यवानयं य एवंविधाद् भीमभुजङ्गमाद (द) वञ्चित इत्यादिकां लोकस्तस्य प्रशंसां करोतीत्यर्थः । यः कोऽपि लघुकर्मा त्यजति परिहरति सद्गुरूपदेशादिना कुगुरुसर्पं असंविग्नागीतार्थाचार्य, हा इति खेदे, मूढास्तादृशकुगुरु मोहमोहिताः कुगुरुपोहो मूढता स्फुटैव । यत:--" आहारार्थिन मुज्झितं गुणलवैरज्ञातशीलान्वयं, साहवंशजत द्विधेन गुरुणा स्वार्थाय मुण्डीकृतम् । यद्विख्यातगुणा For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy