________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पुण्ययुक्ता एव केऽप्यल्पे जानन्तीत्यर्थः ॥ ३३ ॥ ननु तत्स्वरूपं पुण्यहीना न जानन्तीति किमुच्यते यावत्सन्त्येवाधुनापि शुद्धमार्गोपदेष्टारो यदुपदेशतो ज्ञास्यन्ति तत्स्वरूपमित्याशङ्कयाभिनिविष्टानामपुण्यभाजां मुग्धबुद्धीनां शुद्धमार्गप्ररूपकद्वेषिषु गुरुबुद्धा तत्स्वरूपापरिज्ञानमाह
मूलम् - सुद्धा जिणश्राणरया केसि पावाण हुंति सिरसूलं । जेसिं ते सिरसूलं केसि मूढाण ते गुरुणो ॥ ३४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - श्रद्धा निर्मलचिताः शुद्धत्वे कारणमाह-जिनाज्ञारतां भगवद्वचनासक्ता भगवद्वचनतो हि चित्तशुद्धिसम्भवादुक्तं च- "रागादयो मलाः खल्वागमसद्योगतो विगम एषां । तदयं क्रि (ये) यात एव हि पुष्टिः शुडिव चित्तस्य ॥ १४०॥ केषाञ्चित्पापानां पापयुक्तानां भवन्ति जायन्ते शिरःशूलं मस्तकशूलमिव, शुद्धा हि शुद्धदेशनया पापानां त्रासकारिणो भवन्ति । यतः- “खुद्दमियाणं पुण सुद्धदेसणा सीइनायसमा " तवस्तेषां ते शिरः शूलमिति युक्तमेव । येषां च पापानां ते शुद्धाः शिरः शूलं केषांचिन्मूढानां निर्विवेकानां ते तादृशाः पापाः पापगुरवः सन्तीति वर्त्तते । मूढ ! त्वं चैवंविधगुर्वङ्गीकारे स्फुटमेव तेषां ततः शुद्धा जिनाज्ञारता येषां शिरः शूलं तेऽपि केषांचिद् गुरवस्तेभ्यश्च शुद्धस्वरूप द्वेषिभ्यः कथं देवगुर्वादिस्वरूपज्ञानं भवतीत्यर्थः ॥ ३४ ॥ ॥ तर्हि तादृशानपि गुरुत्वेनाङ्गीकृतानवलोक्य तदनुकम्पया सविषादमाह -
For Private and Personal Use Only