________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
सटीक
पष्ठिशतकवाहरतत्वेन परपार्यज्ञायको लोकः स्वभावत एव स्तोकः, तत्रापि गौरवरसिका गुरवः शुद्ध मार्ग निगृहन्ति, तेन वि. ॥ ३८॥ शेषतः परमार्थज्ञा स्तोकतेत्यर्थः ॥ ३२ ॥ अय पुनः परमार्थज्ञा स्तोकतायां हेत्वन्तरमाह
मूलम----सव्वो वि अरिहं देवो सुगुरू गुरू भणइ नाममित्तेण ।
तेसिं सरूवं सुहयं पुण्णविहणा न याति ॥ ३३ ॥ व्याख्या-सर्वोऽपि पारम्पर्यागतश्राद्धकुलोत्पन्नः समस्तोऽपि नैकः कश्चिदित्यपि शब्दार्थः । पृष्टः सन्निति ग. | म्यं अईन् देवः सुगुरुष गुरुरुपकक्षणत्वादईदुक्तो धर्मश्च ममेति सामर्थ्यगम्य इति नाममात्रेणाभिधानमात्रेण भणति कथयति विशेषमाह-- तेषां देवगुरुधर्माणां स्वरूपं परमार्थभूतः सद्भावः, तच्च--" यस्य सक्लेशजननो रागो नास्त्येव सर्वथा । न च द्वेषोऽपि सत्त्वेषु शमेन्धनवानलः ।। १३८॥" इत्यादिरूपं स्वरूपमेव विशिनष्टि सुभदं कल्याणदं सुखदं वा मोक्षसुखदायकं पुण्यविहीनाः प्राक्कृतसुकृतरहिता न जानन्ति न विदन्ति यतः-सुखो बोहो सुगुरुहिं संगमो उवसमो दयालुत्तं । दक्खिन्न करुणजउ लम्भंति न थोषपुन्नेहिं ॥ १३९ ॥ अर्यादधिकपुण्या जानन्ति इदमत्र हृदयम् । सर्वोऽपि नामश्रावकः पृष्टो ममाहन्नेव देवो गुरवः सुसाधवो धर्मः केवलिपज्ञप्त एवे. ति नाममात्रेण कथयति, किलास्मदंशेऽयं च गुरुरयं धर्म इति कुलक्रमाभिमानमात्रयस्तो । न तु तत्स्वरूपं भगवद्गुणचिन्तनात्मकं कदाग्रहत्यागेन मुगुरुसेवारूपं च मिथ्यावपरिहारेण शुद्धधर्मसेवास्वभावं च पुण्यहीना न जानन्ति
ॐॐॐॐॐ
55
8॥ ३८॥
For Private and Personal Use Only