________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसाभाष्ये
[अ. २. स्य प्रयोजनं पुरुषभोगापवर्गावभिमतौ, तौ च न सम्भवतः पुरुषस्य चैतन्यमानवपुषो निष्क्रियस्य निर्विकारस्य निर्मलस्य ततएव नित्यमुक्तस्वरूपस्य प्रकृतिदर्शनरूपो भोगस्तद्वियोगरूपोऽपवर्गश्च न सम्भवति । एवंरूपस्यैव प्रकृतिसन्निधानात्तत्परिणामविशेषसुखदुःखदर्शनरूपभोगसम्भाबनायां प्रकृतिसन्निधानस्य नित्यत्वेन कदाचिदप्यपवर्गो न सेत्स्यति।।८॥ विप्रतिषेधाच्चासमञ्जसम् । २।२।९॥
विप्रतिषिद्धं चेदं साङ्ख्यानां दर्शनम् । तथाहि-प्रकृतेः परार्थत्वेन दृश्यत्वेन भोग्यत्वेन च प्रकृतेर्मोक्तारमधिष्ठातारं द्रष्टारं साक्षिणं च पुरुषमभ्युपगम्य प्रकृत्यैव साधनभूतया तस्य कैवल्यमपि प्राप्यं वदन्त एव तस्य नित्यनिर्विकारचैतन्यमानस्वरूपतया अकर्तृत्वं, कैवल्यं च स्वरूपमेवाहुः । ततएव बन्धमोक्षसाधनानुष्ठानं मोश्च प्रकृतेरेवेत्याहुः, एवंभूतनिर्विकारोदासीनपुरुषसन्निधानात्मकृतरितरेतराध्यासेन सर्गादिवृत्ति पुरुषभोगापवर्गाथत्वं चाहुः१ “सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् । पुरुषोऽस्ति भोक्तभावात्कैवल्यार्थप्रवृत्तेश्च।।तस्माच विपर्यासासिद्धं साक्षित्वमस्य पुरुषस्य कैवल्यं माध्यस्थ्यं द्रष्टत्वं कर्तृभावश्च"इतिः २"पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिःप्रधानस्य" इत्युक्त्वैवमाहुः३ "तम्मान बध्यते नापि मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः"इतितथा ४" तस्मात्तत्संयोगादचेतनं चेतनादिव लिङ्गम्। गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः।।पुरुषस्य दर्शनार्थ केवल्यार्थ तथा प्रधानस्य । पङ्गन्धवदुभयोरपि संयोगस्तत्कृतस्सर्गः" इति । साक्षित्वद्रष्टुत्वभोक्तृत्वादयो नित्यनिर्विकारस्याकर्तुरुदासीनस्य कैवल्यैकस्वरूपस्य न सम्भवन्ति। एवंरूपस्य तस्याध्यासमूलभ्रमोऽपि न सम्भ
१. साङ्क्षय. १७॥-२. साङ्खय. ५७॥-३. साङ्घय. ६२॥--४. साङ्खथ.२०,२१.
For Private And Personal Use Only