________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७
पा. २.]
रचनानुपपत्त्यधिकरणम् स्तत्कृतस्सर्गः"इति । पुरुषस्य प्रधानोपभोगार्थ कैवल्यार्थं च पुरुषसन्निधानात्मधानं सर्गादौ प्रवर्तत इत्यर्थः । अत्रोत्तरं-तथापीति एवमपि प्रधानस्य प्रवृत्त्यसम्भवस्तदवस्थ एव, पनोर्गमनशक्तिविकलस्यापि मार्गदनितदुपदेशादयः कादाचित्का विशेषाः सहस्रशस्सन्ति; अन्धोऽपि चेतनस्संस्तदुपदेशाद्यवगमेन प्रवर्तते; तथा अयस्कान्तमणेरप्ययस्समीपागमनादयस्सन्ति । पुरुषस्य तु निष्क्रियस्य न तादृशा विकारास्सम्भवन्ति । सन्निधानमात्रस्य नित्यत्वेन नित्यसर्गप्रसङ्गो नित्यमुक्तत्वेन बन्धाभावोऽ पवर्गाभावश्च ॥ ५॥
अङ्गित्वानुपपत्तेश्च । २।२।६॥ गुणानामुत्कर्षनिकर्षनिबन्धनाङ्गाङ्गिभावाद्धि जगत्पत्तिः१ "प्रतिप्रतिगुणाश्रयविशेषात्" इति वदद्भिर्भवद्भिरभ्युपगम्यते। प्रतिसर्गावस्थायां तु साम्यावस्थानां सत्त्वरजस्तमसामन्योन्याधिक्यन्यूनत्वाभावादङ्गाङ्गिभावानुपपत्तेर्न जगत्सर्ग उपपद्यते तदापि वैषम्याभ्युपगमे नित्यसर्गप्रसजः। अतश्च न प्राज्ञानधिष्ठितं प्रधानं कारणम् ॥ ६ ॥ अन्यथानुमितौ च ज्ञशक्तिवियोगात् ।२।२।७॥
दुषितप्रकारातिरिक्तप्रकारान्तरेण प्रधानानुमितौ च प्रधानस्य ज्ञातृत्वशक्तिवियोगात्त एव दोषाः प्रादुःष्युः। अतो न कथंचिदप्यनुमानेन प्रधानसिद्धिः ॥ ७॥
अभ्युपगमेऽप्यर्थाभावात् । २।२।८॥
अनुमानेन प्रधानसिद्ध्यभ्युपगमेऽपि प्रधानेन प्रयोजनाभावान तदनुमातव्यम्।२ "पुरुषस्य दर्शनार्थ कैनल्यार्थ तथा प्रधानस्य"इति प्रधान१. सामय, १६ ॥
२. साश्थ. २१ ॥
For Private And Personal Use Only