________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६
श्रीशारीरकमीमांसाभाष्ये
[अ. २.
ये स्वयमेव प्रयतते। यथोक्तं तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्। ददामि बुद्धियोगन्तं येन मामुपयान्ति ते । तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्था ज्ञानदीपेन भास्वता " इति । अतः प्राज्ञानधिष्ठितं प्रधानं न कारणम् ॥ ३ ॥
अथ स्यात् यद्यपि प्राज्ञानधिष्ठितायाः प्रकृतेः परिस्पन्दमवृत्तिरपि न सम्भवतीत्युक्तम्, तथाऽप्यनपेक्षाया एव परिणामप्रवृत्तिस्सम्भवति, तथादर्शनात् ; धेन्वादिनोपयुक्तं हि तृणोदकादि स्वयमेव क्षीराद्याकारेण परिणममानं दृश्यते। अतः प्रकृतिरपि स्वयमेव जगदाकारेण परिणस्यतेइति । तत्राह - अन्यत्राभावाच्च न तृणादिवत् २ । २ । ४ ॥
नैतदुपपद्यते, तृणादेः प्राज्ञानभिष्ठितस्य परिणामाभावाद्दृष्टान्तासिद्धेः कथमसिद्धिः १, अन्यत्राभावात् - यदि हि तृणोदकादिकमनडुहाद्युपयुतं प्रहीणं वा क्षीराकारेण पर्यणस्यत ; ततः प्राज्ञानधिष्ठितमेव परिणमत इति वक्तुमशक्ष्यत ; नचैतदस्ति; अतो धेन्वाद्युपयुक्तं प्राज्ञ एव क्षीरीकरोति । २" पयोम्बुवच्चेत्तत्रापि" इत्युक्तमेवात्र प्रपश्चितं तत्रैव व्यभिचारप्रदर्शनाय ।। पुरुषाश्मवदितिचेत्तथापि । २ । २ । ५ ॥
अथोच्येत – यद्यपि चैतन्यमात्रवपुः पुरुषो निष्क्रियः, प्रधानमपि दृक्छतिविकलम् ; तथापि पुरुषसन्निधानादचेतनं प्रधानं प्रवर्तते, त.. था दर्शनात्; गमनशक्तिविकलहक्छक्तियुक्तपङ्गुसन्निधानात्तश्चैतन्योपकतो दृक्छत्तिविकलः प्रवृत्तिशक्तोऽन्धः प्रवर्तते; अयस्कान्ताश्मसन्निधानाच्चायः प्रवर्तते । एवं प्रकृतिपुरुषसंयोगकृतो जगत्सर्गः प्रवर्तते । यथोक्तं ३" पुरूषस्य दर्शनार्थ कैवल्यार्थ तथा प्रधानस्य । पङ्गन्धवदुभयोरपि संयोग
१. गी. १० १०, ११ ॥
२. शारी. २-२-२ ॥
३. सामय. २१ ॥
For Private And Personal Use Only