________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २.] रचनानुपपत्त्यधिकरणम् । वति, अध्यासभ्रमयोरपि विकारत्वात् । प्रकृतेश्च तौ न सम्भवतः, तयोश्चेतनधर्मत्वात् । अध्यासो हि नाम चेतनस्यान्यस्मिन्नन्यधर्मानुसन्धानम्स च चेतनधर्मो विकारश्च । नच पुरुषस्य प्रकृतिसन्निधिमात्रेणाध्यासादयस्सम्भवन्ति, निर्विकारत्वादेवःसम्भवन्ति चेत्-नित्यं प्रसज्येरन् ; सनिधेकिश्चित्करत्वञ्च१ "नविलक्षणत्वात्"इत्यत्र प्रतिपादितम्। प्रकृतिरेव संसरति बध्यते मुच्यते चेत्-कथं नित्यमुक्तस्य पुरुषस्योपकारिणी सेत्युच्यते? वदन्ति हि२ "नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः। गुणवत्यगणस्य सतस्तस्यार्थमपार्थकं चरति" इति। तथा प्रकृतिर्येन पुरुषेण यथास्वभावा दृष्टा, तस्मात्पुरुषात्तदानीमेव निवर्तत इतिचाहुः ।३ “रङ्गस्य दर्शयित्ला निवर्तते नर्तकी यथा नृत्तात्। पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥ प्रकृतेस्सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति। या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य"इति । तदप्यसङ्गतम् , पुरुषो हि नित्यमुक्तत्वानिर्विकारत्वान्न तां कदाचिदपि पश्यति, नाध्यस्यति च । खयं च स्वात्मानं न पश्यति, अचेतनत्वात् । पुरुषस्य स्वात्मदर्शनं स्वदर्शनमिति नाध्यवस्यतिच, स्वयमचेतनत्वात् , पुरुषस्य च दर्शनरूपत्रिकारासम्भवात् । अथ सन्निधिमात्रमेव दर्शनमित्युच्यते सनिधेनित्यत्वेन नित्यदर्शनप्रसङ्ग इत्युक्तम् । स्वरूपातिरिक्तकादाचित्कसन्निधिरपि नित्यनिर्विकारस्य नोपपद्यते । किंच मोक्षहेतुस्तु स्वसन्निधानरूपमेव दर्शनं चेत्बन्धहेतुरपि तदेवेति नित्यवदन्धो मोक्षश्च स्याताम् । अयथादर्शनं बन्धहेतुः, यथावत्स्वरूपदर्शनं मोक्षहेतुरितिचेत्-उभयविधस्यापि दर्शनस्य सनिधानरूपतानतिरेकात्सदोभयप्रसङ्ग एव । सन्निधेरनित्यत्वे तस्य हेतुरन्वेषणीयः, तस्यापीत्यनवस्था । अथैतदोषपरिजिहर्षिया स्वरूपसद्भावएव सन्निधिरिति, तदा स्वरूपस्य नित्यत्वेन नित्यवद्धन्धमोक्षौ । अत एवमा
१. शरी. २-१-४॥
२. साङ्क्षय. ६०, ५९॥
For Private And Personal Use Only