________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८.
श्रीशारीरकमीमांसाभाष्ये
[म.२. देविप्रतिषेधात्साङ्ख्यानां दर्शनमसमञ्जसम्।येऽपि कूटस्थनित्यनिर्विशेषखप्रकाशचिन्मानं ब्रह्माविद्यासाक्षित्वेनापारमार्थिकबन्धमोक्षभागिति वदन्ति, तेषामप्युक्तनीत्याऽविद्यासाक्षित्वाध्यासाद्यसम्भवादसामञ्जस्यमेव इयांस्तु विशेषः-साङ्ख्याः जननमरणप्रतिनियमादिव्यवस्थासिद्ध्यर्थं पुरुषबहुत्वमिच्छन्ति, ते तु तदपि नेच्छन्तीति सुतरामसामञ्जस्यम् । यत्तु प्रकृतेः पारमार्थ्यापारमार्थ्यविभागेन वैषम्यमुक्तम् , तदयुक्तम् , पारमार्थिकत्वेऽप्यपारमार्थिकत्वेऽपि नित्यनिर्विकारस्वप्रकाशैकरसचिन्मात्रस्य स्वव्यतिरिक्तसाक्षित्वाद्यनुपपत्तेः। अपारमार्थिकत्वे तु तस्याः दृश्यत्वबाध्यत्वाभ्युपगमात्सुतरामसङ्गतम्।औपाधिकभेदवादेऽपिउपाधिसम्बन्धिनो ब्रमणोऽयमेव स्वभाव इत्युपाधिसम्बन्धाद्यनुपपत्तेरसामञ्जस्यं पूर्वमेवोक्तम्।।
इति श्रीशारीरकमीमांसाभाष्ये रचनानुपपत्यधिकरणम् ॥ १ ॥
वेदान्तसारे-रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च ॥ दादरचेतनस्य रथप्रासादादिनिर्माणे तदभिज्ञानधिष्ठितस्य रचनानुपपत्तेश्च तज्ज्ञाधिष्ठितस्य रचनाप्रवृत्तेश्च, अनुमानगम्यं प्रधानमचेतनं प्राज्ञानधिष्ठितं न जगत्कारणम् ॥१॥
पयोम्बुवच्चेत्तत्रापि ॥ यथा पयः, अम्बुच दध्यादिभावेऽनपेक्षम् , तद्वत्प्रधानमपीति चेत्-तत्रापि उक्त एव हेतुः, तस्यापि पक्षीकृतत्वात् ॥२॥
व्यतिरेकानवस्थितेश्वानपेक्षत्वात् ॥ प्राक्षाधिष्ठितत्वानपेशत्वेन सवंदा सृष्टिप्रसङ्गाश्च न प्रधानं कारणम् ॥ ३॥
_अन्यत्राभावाच न तृणादिवत् ॥ क्षीरीभवद्धेनूपयुक्ततृणादिवत् प्र. धानमपीति न युक्तं वक्तुम् , अनडुहादिष्वदर्शनात् ; तद्धि प्राक्षाधिष्ठितम् ॥
पुरुषाश्मवादितिचत्तथापि ॥ पुरुषः स्वसन्निधानात्प्रधानं प्रवर्तयति । अन्धपङ्गुपुरुषवत्-अश्मवत्-अयस्कान्ताश्मवत् इति न प्राज्ञापेक्षेति चेत्न-तथापि न प्रधानप्रवृत्तिसम्भवः, अविकृतत्वात्पुरुषस्य । पङ्गन्धादेः मार्गो पदेशदेशान्तरगमनादिः कादाचित्को विकारो ह्यस्ति ॥५॥
For Private And Personal Use Only