________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २.]
रचनानुपपत्त्यधिकरणम् . अङ्गित्वानुपपत्तेश्च।।गुणानामुत्कर्षापकर्षरूपाङ्गाङ्गिभावेन हि जगत्प्रवृ. त्तिः, प्रतिसर्गावस्थायां साम्यावस्थानां वैषम्यकृताङ्गाङ्गित्वानुपपत्तेश्च न जगदारम्भः ॥ ६॥
___ अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात् ।। ज्ञस्य या शक्तिः, तद्वियोगात्-शातृत्वशक्तिवियोगादित्यर्थः । उक्तप्रकारव्यतिरिक्तप्रकारेण प्रधानानुमितौ च प्रधानस्य मातृत्वशक्तिवियोगात् रचनानुपपत्त्यादयो दोषास्तवस्थाः ॥७॥
अभ्युपगमेऽप्यर्थाभावात्।।प्रधानाभ्युपगमऽपि प्रयोजनाभावान्न तद. नुमेयम् । पुरुषस्य निर्विकारस्य प्रधानदर्शनरूपविकारासम्भवात् , प्रकृतिधर्माध्यासनिमित्तभोगः, तद्विवेकानुसन्धानकृतकैवल्यञ्च न सम्भवति ॥ ८ ॥
विप्रतिषेधाच्चासमञ्जसम् ॥ पुरुषस्य द्रष्तृत्वभोक्तृत्वनिर्विकारत्वादिविरुद्धसहस्राभ्युपगमाच असमञ्जसं कापिलमतम् ॥९॥
इति वेदान्तसारे रचनानुपपत्त्यधिकरणम् ॥ १ ॥
वेदान्तदीपे-रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च।। साङ्ख्यतन्त्रसिद्धः प्र. धानकारणवादः किं समोचीनयुक्तिमूलः?,उत नेति संशयः समीचीनयुक्तिमूल इति पूर्वः पक्षः ; घटादिवद्विचित्रसन्निवेशं जगत्कार्यम् , तद्वदेव स्वसरूपकारणविशेषारब्धम् ; सुखदुःखमोहाद्यात्मकतया सत्त्वाद्यात्मकं जगत् सत्त्वरजस्तमोमूलकम् । तत्र महदादिपृथिव्यन्तानां घटादिवत्परिणामित्वेन कारणापेक्षित्वाविशेषात् ते जगदुत्पत्तौ कारणकाष्ठा न भवन्ति, तेषां परिमितत्वेन अपरिमितजगदुत्पादनाशक्तेः। अन्यूनानतिरिक्तानि साम्यावस्थान्यपरिमितानि स. त्वरजस्तमांसि अव्यक्तप्रधानादिशब्दाभिधेयानि जगत्कारणम् । राद्धान्तस्तु -रथप्रासादादिहेतुभूतदाादिवत् अचेतनं प्रधानं स्वस्वभावाद्यभिज्ञचेतनानधिष्ठितं विचित्रजगद्रचनासमर्थमिति न केवलं प्रधानं कारणम् । सूत्रार्थस्तु -रचनानुपपत्तेश्च नानुमानम्--अनुमीयत इति अनुमानम् प्रधानम् । तस्याचेतनस्य प्राज्ञानधिष्ठितस्य विचित्रसनिवेशजगद्रचनानुपपत्तेः तन्न कारणम् । चकारात्सत्वादीनां द्रव्यगुणत्वेन शौक्लथादेरिवोपादानकारणत्वासम्भवं समु. चिनोति । सत्त्वादयो हि कार्यगतलाघवप्रकाशादि हेतुभूताः कारणभूतपृथि
*II
For Private And Personal Use Only