________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेदान्तदीपे
[भ. २. व्यादिगतास्तत्स्वभावविशेषाः। प्रवृत्तेश्व--अनुपपत्तेरिति वर्तते ; प्राज्ञानष्ठितस्य प्रधानस्य विचित्रजगद्रचनानुगुणाद्यपरिस्पन्दरूपप्रवृत्त्यनुपपत्तेश्च न प्रधानं कारणम् ॥१॥
पयोम्बुवच्चेत्तत्रापि ॥ पयसः अम्बुनश्च यथा प्राज्ञानधिष्ठितस्यैव दधिभावेन नारिकेलचूतादिविचित्ररसरूपेण च परिणामो दृश्यते; तत्प्रधानस्यापि केवलस्यैव जगदाकारेण परिणाम उपपद्यत इति चेत्-परिहरति-- तत्रापि -इति ; तदपि पक्षीकृत मित्यर्थः । यत्र रथादिष्वचेतनस्य प्राशाधिष्ठितत्वं दृष्टम् । तद्यतिरिक्तं हि सर्व पक्षीकृतमेव । १“योऽप्सु तिष्ठन् ' इत्यादिश्रुतेः तदपि प्राशाधिष्ठितम् ॥२॥
व्यतिरेकानवस्थितेश्वानपेक्षत्वात् ॥ सर्गव्यतिरेकेण प्रतिसवस्थयानवस्थितिप्रसङ्गाश्च केवलं प्रधानं न कारणम् ; अन्यानपेक्षत्वात्प्रधानस्य सवंदैव सृष्टिः प्रसज्यते ॥ ३॥
अन्यत्राभावाच न तृणादिवत् ॥ धेन्वादिनोपयुक्तं हि तृणोदकादि स्वयमेव क्षीराकारेण परिणमते; तद्वत्प्रधानमपीति च वक्तुं न शक्यते; धेन्वादिनोपयुक्तस्यापि तृणादेः क्षीराकारेण परिणामः प्राशाधिष्ठितत्वादेव भवतीत्यभ्युपेतव्यम् ; कुतः ? अन्यत्राभावात्-अनडुहाधुपयुक्तस्य प्रहीणस्य वा तृणादेः क्षीराकारेण परिणामाभावात् ॥ ४॥
पुरुषाश्मवदितिचत्तथापि ॥ प्राज्ञानधिष्ठितमपि प्रधानं, चैतन्य मात्रवपुर्निष्क्रियः पुरुषस्स्वसन्निधिमात्रेण सर्गादौ प्रवर्तयति । यथा दृक्छक्तियुक्तः गमनशक्तिविकलः पङ्गुः पुरुषः, अन्धं दृक्छक्तिधिकलं प्रवृत्तिशक्तियुक्तं पुरुषं स्वसन्निधानात्प्रवर्तयति ; यथा चायस्कान्ताश्मा स्वसन्निधानादयः प्रवर्तयति ; तद्वदितिचेत्-परिहरति-तथापि-इति ; तद्वदपि प्रधानस्य प्रवृत्तिर्नोपपद्यते । तत्र हि पङ्गोः पुरुषस्य गमनशक्तिविकलस्यापि मार्गोपदेशादिव्यापारः कादाचित्को दृश्यते अन्धस्य चाक्षुषव्यापारविरहेऽपि पङ्गपदेशनहणादिश्चेतनधर्मोऽस्ति । अयस्कान्तमणेरप्ययःप्रवृत्तौ कादाचित्कमयस्सन्निधानं विद्यते । इहतु सन्निधिमात्रातिरेकी तादृशः कश्चिद्विशेषः उभयत्रापि न विद्यते । पुरुषसनिधानस्य नित्यत्वेन नित्याप्रसक्तिः । तथा सति प्रतिस
१. बृ. ५-७.४॥
For Private And Personal Use Only