________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २.]
रचनानुपपत्त्यधिकरणम्. र्गाभावोऽपवर्गाभावप्रसङ्गश्च ॥ ५॥
इतश्च
अङ्गित्वानुपपत्तेश्च ॥ गुणानामुत्कर्षापकर्षरूपाङ्गाङ्गिभावेन जगत्प्रवृ. त्तिः प्रातेसर्गावस्थायां साम्यावस्थानामेकस्योत्कर्षरूपाङ्गित्वानुपपत्तेश्च न सम्भवति । तत्राप्युत्कर्षोऽस्तिचेत् सर्वदा सर्गप्रसङ्गः ॥ ६॥
अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात् ॥ उक्तप्रकाराद्यतिरिक्तप्रकारेण प्रधानानुमितौ च प्रधानस्य ज्ञातृत्वशक्तिवियोगाद्रचनानुपपत्त्यादयो दोषाः तदवस्थाः ॥ ७॥
अभ्युपगमेऽप्यथाभावात्।।प्रधानाभ्युपगमेऽपि प्रधानेन प्रयोजनाभावान्न तदनुमेयम् । पुरुषस्य भोगापवर्गार्थतया हि प्रधानप्रवृत्तेस्सप्रयोजनत्वम्. चैतन्यमात्रवपुषो निष्क्रियस्य नित्यनिर्विकारस्य पुरुषस्य इतरेतराध्यासकृतप्र. कृतिदर्शनरूपभोगः,तद्विवेचनरूपापवर्गश्च न सम्भवति। निर्विकारस्यैव प्रकृतिसन्निधानेन भोगस्सम्भवति चेत् उभयार्नित्यत्वेन सर्वगतत्वेन च सत्रिधानस्य नित्यत्वादपवर्गासिद्धिः, तथाविधसन्निधेरेवापवर्गहेतुत्वे भोगासि. द्धिश्च ॥८॥
विप्रतिषेधाच्चासमञ्जसम् ॥ विप्रतिषिद्धं चेदं साङ्ख्यदर्शनम् ; प्रकृतेः परार्थतया पुरुषो द्रष्टा भोक्ता अधिष्ठाता च-इत्याहुः प्रकृतेश्च पुरुषस्य भोगापवर्गार्थतया सप्रयोजनत्वं च, प्रकृत्यैव साधनभूतया पुरुषो भोगमपवर्ग चाश्नुत इति चोक्तेः। सच पुरुषश्चैतन्यमात्रवपुर्नित्यो निर्विकारो न द्रष्टा न भो क्ता न कर्ता-इति च । अत एव पुरुषो न बद्ध्यते, नच मोक्षसाधनमनुतिष्ठति, नच मुच्यते-इति च वदन्ति। प्रकृतिरचेतनभूतैव पुरुषसनिधानात्पुरुषधर्म चैतन्यं स्वस्मिन् स्वधर्म कर्तृत्वं पुरुषे चानुसन्धाय बध्यते; मोक्षसाधनमनुतिष्ठति मुच्यते-इतिचाहुः। अध्यासनरूपमनुसन्धानं हि चेतनधर्मः; तथा प्रकृतिरनुपकारिणः पुरुषस्य भोगापर्वगस्वरूपं प्रयोजनं साधयतीत्युपकारिणी --इति चाहुः। अध्यासरूपबन्धादयः पुरुषस्य न सन्तीतिचेत्-कस्तस्योपकारः। एवमाद्यन्योन्यविरुद्धभाषणादसमञ्जसम् ॥ ९॥
इति वेदान्तदीपे रचनानुपपत्त्यधिकरणम् ॥ १ ॥
For Private And Personal Use Only