________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(श्रीशारीरकमीमांसाभाष्ये महद्दीर्घाधिकरणम् ॥ २॥):महद्दीर्घवद्वाहस्वपरिमण्डलाभ्याम्।२।२।१०॥
प्रधानकारणवादस्य युक्त्याभासमूलतया विप्रतिषिद्धत्वाचासामअस्यमुक्तम् । सम्पति परमाणुकारणवादस्याप्यसामञ्जस्य प्रतिपाद्यतेमहद्दीर्घवदा हस्वपरिमण्डलाभ्याम्-इति । असमञ्जसमिति वर्तते ; वाशब्दश्चार्थे । हस्खपरिमण्डलाभ्यां घणुकपरमाणुभ्यां, महद्दीर्घवत्-त्रयणुकोत्पत्तिवादवत्, अन्यच्च सदभ्युपगतं सर्वमसमञ्जसम्; परमाणुभ्यो घणुकादिक्रमेण जगदुत्पत्तिवादवदन्यदप्यसमञ्जसमित्यर्थः । तथाहि-तन्तुप्रभृतयो ह्यवयवाः स्वांशैष्षइभिः पार्थास्संयुज्यमाना अवयविनमुत्पादयन्ति, परमाणवोऽपि स्वकीयः षभिः पार्वैस्संयुज्यमाना एव द्यणुकादीनामुत्पादका भवेयुः, अन्यथा परमाणूनां प्रदेशभेदाभावे सति सहस्रपरमाणुसंयोगेऽप्येकस्मात्परमाणोरनतिरिक्तपरिमाणतया अणुत्वहस्खत्वमहत्त्वदीर्घत्वाद्यसिद्धिस्स्यात् । प्रदेशभेदाभ्युपगमे परमाणवोऽपि सांशाः स्वकीयैरंशैः। ते च स्वकीयैरंशैरित्यनवस्था । नच वाच्यम्-अवयवाल्पत्वमहस्वाभ्यां हि सर्षपमहीधरयोः वैषम्यम् , परमाणोरप्यनन्तावयवत्वे अवयवानन्त्यसाम्यात्सर्षपमहीधरयोः वैषम्यासिद्धेः अवयवापकर्षकाष्ठावश्याभ्युपगमनीया-इति । परमाणूनां प्रदेशभेदाभावे सत्येकपरमाणुपरिमाणातिरेकी प्रथिमा न जायतेति सर्षपमहीधरयोरेवासिद्धेः किं कुर्म इति चेत् -वैदिकः पक्षः परिगृह्यताम्। यत्तु परैः ब्रह्मकारणवाददूषणपरिहारपरमिदं सूत्रं व्याख्यातम् ; तदसङ्गतं, पुनरुक्तंच; ब्रह्मकारणवादे परोक्तान् दोषान् पूर्वस्मिन् पादे परिहत्य परपक्षप्रतिक्षेपो अस्मिन् पादे क्रियते । चेतनाद्ब्रह्मणो जगदुत्पत्तिसम्भवश्च १ "न विलक्षणत्वात्" इत्यत्रैव अपश्चितः। अतो हस्वपरिमण्डलाभ्यां महद्दीर्घाणुहस्खोत्पत्तिवदन्यच्च तदभ्युपगतं सर्वमसमञ्जसमित्येव सूत्रार्थः ॥ १० ॥
१. शारी. २-१-४॥
For Private And Personal Use Only