________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा..]
महद्दीर्घाधिकरणम्. किमन्यदसमञ्जसमित्यत्राहउभयधाऽपि न कर्मातस्तदभावः। २।२।११॥
परमाणुकारणवादे हि परमाणुगतकर्मजनिततत्संयोगपूर्वकधणुकादिक्रमेण जगदुत्पत्तिरिष्यते, तत्र निखिलजगदुत्पत्तिकारणभूतपरमाणुगतमा कर्मादृष्टकारितमित्यभ्युपगम्यते "अग्नरूप्रज्वलनं वायोस्तिर्यग्गमनमणुमनसोश्चाद्यं कर्मेत्यदृष्टकारितानि"इनि। तदिदं परमाणुगतं कर्म स्वगतादृष्टकारितम्, आत्मगतादृष्टकारितं वा। उभयथाऽपि नसम्भवति, क्षेत्रज्ञपुण्यपापानुष्ठानजनितस्यादृष्टस्य परमाणुगतत्वासम्भवात् , सम्भवे च सदोत्पादकत्वप्रसङ्गः। आत्मगतस्य चादृष्टस्य परमाणुगतकोत्पत्तिहेतुत्वं न सम्भवति । अथाष्टवदात्मसंयोगादणुषु कर्मोत्पत्तिः,तदा तस्यादृष्टप्रवाहस्य नित्यत्वेन नित्यसर्गप्रसङ्गानन्वष्टं विपाकापेक्षं फलायालम् । कानिचिदष्टानि तदानीमेव विपच्यन्ते, कानिचिजन्मान्तरे, कानिचित्कल्पान्तरे। अतो विपाकापेक्षत्वान्न सर्वदोत्पादकत्वप्रसङ्ग इति। नैतत् , अनन्तैरात्मभिस्सङ्केतपूर्वकमयुगपदनुष्ठितानेकविधकर्मजनितानामदृष्टानामेकस्मिन्काले एकरूपविपाकस्याप्रामाणिकत्वात् । अत एव युगपत्सर्वसंहारो द्विपराधकालमविपाकेनावस्थानं च न सङ्गच्छते । नचेश्वरेच्छाहितविशेषादृष्टसंयोगादणुषु कर्म,आनुमानिकेश्वरासिद्धेः "शास्त्रयोनित्वात्" इत्यत्रोपपादितत्वात्। अतो जगदुत्पत्तेरणुगतकर्मपूर्वकत्वाभावः ॥ ११ ॥ समवायाभ्युपगमाच्च साम्यादनवस्थितेः।२।१।१२
समवायाभ्युपगमाच्चासमञ्जसम् , कुतः? साम्यादनवस्थितेः-. समवायस्याप्यवयविजातिगुणवदुपपादकान्तरापेक्षासाम्यादुपपादकान्तरस्यापि तथेत्यनवस्थिोरसमञ्जसमेव । एतदुक्तं भवति-अयुतसिद्धानामाधाराधेयभूतानामिह प्रत्ययहेतुर्यस्सम्बन्धः, स समवाय इति समवायोऽ
॥ २. शारी. १-१-३ ॥
For Private And Personal Use Only