________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७४
श्रीशारीरकमीमांसाभाष्ये
विचितपरिणाम उपपद्यते । यथोक्तं १" परिणामतस्सलिलवत्प्रतिप्रतिगुणाश्रयविशेषात् " इति । तदेवमव्यक्तमनन्यापेक्षं प्रवर्तत इति चेत्अत उत्तरं तत्रापि - इति ; यत् क्षीरजलादिदृष्टान्ततया निदर्शितम्, तवापि प्राज्ञानधिष्ठाने प्रवृत्तिर्नोपपद्यते ; तदपि पूर्वत्र पक्षीकृतमित्यभिप्रायः | २ उपसंहारदर्शनान्नेतिचेन्न क्षीरवद्धि" इत्यत्र दृष्टपरिकरान्तररहितस्यापि स्वासाधारणपरिणाम उपपद्यत इत्येतावदुक्तम्, न प्राज्ञाधिष्ठितत्वं पराकृतम्, ३“योप्सु तिष्ठन्" इत्यादिश्रुतेः । व्यतिरेकानवस्थितेश्चानपेक्षत्वात् । २ । २ । ३॥
"
इतश्च सत्यसङ्कल्पेश्वराधिष्ठानानपेक्षपरिणामित्वे सर्गव्यतिरेकेण प्रतिसर्गावस्थयाऽनवस्थितिप्रसङ्गाच्च न प्राज्ञानधिष्ठितं प्रधानं कारणम् ; माज्ञाधिष्ठितत्वे तस्य सत्यसङ्कल्पत्वेन सर्गप्रतिसर्गविचित्रसृष्टिव्यवस्थासिद्धिः । न च वाच्यं प्राज्ञाधिष्ठितत्वेऽपि तस्यावाप्तसमस्तकामस्य परिपूर्णस्यानवाधिकातिशयानन्दस्य निरवद्यस्य निरञ्जनस्य सर्गप्रतिसर्गव्यवस्थाहेत्वभावाद्विषमसृष्टौ निर्दयत्वप्रसङ्गाच्च समानोऽयं दोष इति ; परिपूर्णस्यापि लीलार्थप्रवृत्तिसम्भवात् सर्वज्ञस्य तस्य परिणामविशेषापत्रप्रकृतिदर्शनरूपसर्गप्रतिसर्ग विशेष हेतोस्सम्भवात् क्षेत्रज्ञकर्मणामेव विषमसृष्टिव्यवस्थापकत्वाच्च । नन्वेवं क्षेत्रज्ञ पुण्यापुण्यरूपकर्मभिरेष सर्वा व्यबस्थास्सिध्यन्तीति कृतमीश्वरेणाधिष्ठात्रा ; पुण्यापुण्यरूपानुष्ठितकर्मसंस्कृता प्रकृतिरेव पुरुषार्थानुरूपं तथातथा व्यवस्थया परिणंस्यते ; यथा विषादिदूषितानामन्नपानादीनामौषधविशेषाप्यायितानां च सुखदुःखहेतुभूतः परिणामविशेषो देशकालव्यवस्थया दृश्यते ; अतस्सर्गप्रतिसर्गव्यवस्था देवादिविषमसृष्टिः कैवल्यव्यवस्था च सर्वप्रकारपरिणामशक्तियुक्तस्य प्रधानस्यैवोपपद्यत इति । अनभिज्ञो भवान् पुण्या पुण्यकर्मस्वरूपयोः;
"
१. साङ्ख्यतत्त्वकौमुदी. १६ ॥ २. शारी. २-१-२४ ॥
३. बृ. ५-७-४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
[अ. २.