________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७३
पा. २.]
रचनानुपपत्त्यधिकरणम्प्रधानं कारणमित्युक्तं भवति। चकारादन्वयस्यानैकान्त्यं समुचिनोतिन घन्वितं शौक्लयगोत्वादि कारणत्वव्याप्तम् न च वाच्यं मा भूदन्वितानामपि शक्लियादिधर्माणां कारणत्वम्, द्रव्यस्य तु हेमादेः कार्येऽन्वितस्य कारणत्वव्याप्तिरस्त्येव ; सत्त्वादीन्यपि द्रव्याणि कार्येऽन्वितानि कारणत्वव्यासानि-इति ; यतस्सत्त्वादयो द्रव्यधर्माः, न तु द्रव्यखरूपम् ; सवादयो हि पृथिव्यादिद्रव्यगतलघुत्वप्रकाशादिहेतुभूतास्तत्स्वभावविशेषा एव; न तु मृद्धिरण्यादिवदव्यतया कार्यान्विता उपलभ्यन्ते ; गुणा इत्येव च सत्वादीनां प्रसिद्धिः । यच्च कारणव्यवस्थासिद्धये जगतः एकमूलत्वमुक्तम्, तदपि सत्त्वादीनामनेकत्वानोपपद्यते । अत एव कारणव्यवस्था च न सिद्ध्यति । साम्यावस्थास्सत्त्वादय एव हि प्रधानमिति त्वन्मतम् । अतः कारणबहुत्वादनवस्था तदवस्थैव । न च तेषामपरिमितत्वेन व्यवस्थासिद्धिः, अपरिमितत्वे हि त्रयाणामपि सर्वगतत्वेन न्यूनाधिकभावाभावाद्वैषम्यासिद्धेः कार्यारम्भासम्भवात् । कार्यारम्भायैव परिमितत्समवश्याश्रयणीयम् ॥ ___ यत्र रथादिषु स्पष्टं चेतनाधिष्ठितत्वं दृष्टम् , तद्व्यतिरिक्तं सर्व पक्षीकृतमित्याह
पयोम्बुवच्चेत्तत्रापि । २।२।२॥
यदुक्तं प्रधानस्य प्राज्ञानधिष्ठितस्य विचित्रजगद्रचनानुपपत्तिरिति; तन्न, यतः पयोऽम्बुवत्पत्तिरुपपद्यते । पयसस्तावद्दधिभावेन परिणममानस्थानन्यापेक्षस्याऽद्यपरिस्पन्दप्रभृतिपरिणामपरम्परा खत एवोपपद्यते ; यथा च वारिदविमुक्तस्याम्बुन एकरसस्य नारिकेलतालचूतकपित्थनिम्बतिन्त्रिण्यादिविचित्ररसरूपेण परिणामप्रवृत्तिः स्वत एव ह. श्यते; तथा प्रधानस्यापि परिणामस्वभावस्यान्यानधिष्ठितस्यैव प्रतिसगावस्थायां सदृशपरिणामेनावस्थितस्य सर्गावस्थायां गुणवैषम्यनिमित्त
For Private And Personal Use Only