SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PIC - - - - - Flviviraviwww श्रीमते रामानुजाय नमः श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये (द्वितीयाध्याये-द्वितीयपादे-रचनानुपपत्त्यधिकरणम् ॥१॥).... रचनानुपपत्तेश्च नानुमानं प्रहत्तेश्च ।२।२।१॥ उक्तं जगजन्मादिकारणं परं ब्रह्मेति । तत्र परैरुद्भाविताश्च दो षाः परिहृताः इदानी स्वपक्षरक्षणाय परपक्षाः प्रतिक्षिप्यन्ते ; इतरथा कस्यचिन्मन्दधियस्तेषां पक्षाणां युक्त्याभासमूलतामजानतः प्रामाणिक त्वशङ्कया वैदिकपक्षे किंचिच्छ्रद्धावैकल्यं जायेतापि; अतः परपक्षप्रतिक्षे. पायानन्तरः पादः प्रवर्तते। तत्र प्रथमं तावत्कापिलमतं निरस्यते, वैदि. कानुमतसत्कार्यवादाद्यर्थसङ्ग्रहेणैतस्य सत्पक्षनिक्षेपसम्भावनाभ्रमहेतुत्वा. तिरेकात् ।" ईक्षतेनाशब्दम्" इत्यादिभिः वैदिकवाक्यानामतत्परत्वमा नमुक्तम् । अत्रैव तत्पक्षस्वरूपप्रतिक्षेपः क्रियत इति न पौनरुक्त्याशङ्का। एषा साङ्ख्यानां दर्शनस्थितिः-२"मूलप्रकृतिरविकृतिर्महदाद्याः प्रकतिविकृतयस्सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः"इति तत्त्वसङ्ग्रहः । मूलप्रकृति म सुखदुःखमोहात्मकानि लाघवप्रकाशचलनोपष्टम्भनगौरवावरणकार्याण्यत्यन्तातीन्द्रियाणि कार्यैकनिरूपणविवेकान्यन्यूनानतिरेकाणि समतामुपेतानि सत्त्वरजस्तमांसि द्रव्याणि। सा च १. शारी. १-१.५ ॥--२. सामथतत्त्वकौमुदी. ३. श्लो॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy