________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
प्रयोजनवत्त्वाधिकरणम्. सृष्टेः प्राकर्म न विद्यते क्षेत्रज्ञाभावात् तदभावश्च, १ 'सदेव सोम्येदम्" इत्य. वधारणावगताद विभागादितिचेत्-तन्न, अनादित्वात् क्षेत्रज्ञानां तत्ताकर्म प्रवाहाणांच, उपपद्यते च क्षेत्रशस्वरूपानादित्वेऽपि नामरूपविभागाभावादविभागश्रुतिः, अन्यथा अकृताभ्यागमकृतविप्रणाशप्रसङ्गात् । उपलभ्यते च श्रु. तिस्मृत्योः क्षेत्रज्ञानामनादित्वम् २ "तद्धदं तहव्याकृतमासीत्तत्रामरूपाभ्यां व्याक्रियत" इति । नामरूपव्याकरणमात्रश्रवणात् क्षेत्रज्ञानां खरूपानादित्वं सि. द्धम् , ३ "माझौ द्वावजावीशनीशौ" "नित्यो नित्यानाम्" ५"प्रकृति पुरुषं चैव विद्यनादी उभावपि" इति, अविभागश्रुतिरपि नामरूपविभागाभावादेवोपपद्यत इत्यभिप्रायः ॥ ३५ ॥
सर्वधर्मोपपत्तेश्च ॥ प्रधानपरमाण्वादिष्वनुपपन्नानां ६" स्वपक्षदोषात्" इत्यादिपूतानां सर्वेषां धर्माणां कारणत्वोपपादकानां ब्रह्मण्युपपत्तेश्व ब्रह्मैव कारगम्। प्रधानपरमाण्वादीनां परिमितशक्तिकत्वाल्लोकदृष्टवस्तुसजातीयत्वाश अनुपपत्तयस्सहस्रशस्सन्ति, ब्रह्मणश्शास्त्रकसमधिगम्यतया सकलेतरविसजातीयत्वेनाचिन्त्यशक्तित्वात्सर्वशक्तित्वश्रुतेश्च सर्वमुपपन्नमित्यर्थः॥
इति श्रीवेदान्तदीपे प्रयोजनवत्त्वाधिकरणम् ॥ १० ॥ इति श्रीभगवद्रामानुजविरचिते वेदान्तदीपे द्वितीयस्याध्यायस्य प्रथमः पादः ॥१॥
१. छा. ६-२-१ ॥--२. ३. ३-४-७॥-३. श्वे. १-९ ॥-४. श्वे. ६-१३ ॥५. गी. १३-१९ ॥-६. शारी. २.१.२९ ॥
For Private And Personal Use Only