________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेदान्तदीपे
[म.. मणि सकलेतरविलक्षणत्वेन सर्वशक्तिश्रुस्या चोपपत्तेः ब्रह्मैव कारणमिति सि. दम् ॥ ३६॥
इति वेदान्तसारे प्रयोजनवखाधिकरणम् ॥ १० ॥ इति श्रीभगवद्रामानुजविरचिते वेदान्तसारे द्वितीयस्पाध्यायस्य
प्रथमः पादः॥१॥
वेदान्तदीपे-न प्रयोजनवत्वात् ॥ ब्रह्मणो जगत्कारणत्वं सम्भवति, नेति संशयः । न सम्भवतीति पूर्वः पक्षः ; बुद्धिपूर्वारम्भाणां सायोजन त्वात् , ईश्वरस्य च खत एवावाप्तसमस्तकामस्य जगत्सृष्टयारम्भे प्रयोजनामा वात् , गर्भवासादिदुःखरूपत्वात्सृष्टः,परानुग्रहेणापि न सप्रयोजनत्वम्--इति । राद्धान्तस्तु-परिपूर्णस्यापीश्वरस्य केवललीलाप्रयोजनाय जगत्सृष्टयाघारम्भस्सम्भवति ; यथा लोके सप्तद्वीपवती मेदिनीमधितिष्ठतो महाराजस्य परिपू. र्णस्यापि केवललीलैकफलाः कन्तुकाद्यारम्भा दृश्यन्ते, तद्वदीश्वरस्यापि प्रयो. जनाय जगत्सृष्टयारम्भस्सम्भवति । सूत्रार्थस्तु-न प्रयोजनवत्त्वात् । प्रयोज नवत्त्वात्सृष्टेः ईश्वरस्य स्वतः परिपूर्णस्य प्रयोजनाभावान्न स्रष्टत्वम् ॥ ३२ ॥
लोकवतु लीलाकैवल्यम् ॥ लीलाकैवल्यं लीलायाः प्रयोजन वे कैवल्यं सम्भवति ; केवलाया लीलायास्सृष्ट्यारम्भप्रयोजनत्वं सम्भवतीत्यर्थः । लोकवत् । यथा लोके राक्षः कन्तुकाद्यारम्भे ॥ ३३ ॥
देवमनुष्यादिविषमसृष्टया पक्षपात्रप्रसङ्गात् दुर्विषहदुःखगर्भत्वेन नै - ध्यप्रसङ्गाच, परमकारुणिकस्य परमपुरुषस्य परिपूर्णस्य लीलार्थमपि जगत्सर्गों न सम्भवतीत्याशङ्कयाह
वैषम्यनैघण्ये न सापेक्षत्वात्तथाहि दर्शयति ॥ ईश्वरस्य विचित्रजगत्सृष्टौ देवादिवैषम्यप्रयुक्तपक्षपातः, दुःखप्रदजगत्सर्गे नेण्यं च न सम्भवतः वैषम्यादावीश्वरस्य क्षेत्रकर्मसापेक्षत्वात् क्षेत्रज्ञानां पूर्वपूर्वकर्मपलो. च्य, तत्तत्कर्मानुगुणं विषमं जगत्सृजतीति तत्कर्मैव वैषम्यादिहेतुरित्यर्थातथा देवादिदेहयोग क्षेत्रज्ञानां तत्कर्मसापेक्षं दर्शयति हि श्रुतिः११ "साधुकारी साधुभवति पापकारी पापो भवति" इति ॥ ३४॥
न कर्माविभागादितिचेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च ॥ १. वृ. ६-४-५॥
For Private And Personal Use Only