________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.
प्रयोजनववाधिकरणम्. तस्य समेस्य धर्मजातस्य कारणत्वोपपादिनो ब्रह्मण्युपपत्तेश्च ब्रह्मैव जगत्कारणमिति स्थितम् ॥ ३६॥
इति श्रीशारीरकमीमांसाभाष्ये प्रयोजनवत्वाधिकरणम् ॥ १० ॥ इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये
द्वितीवस्याभ्यायस्य प्रथमः पादः॥१॥
वेदान्तसारे-न प्रयोजनवत्त्वात् ॥ ब्रह्मणः अवाप्तसमस्तकामधेन सौ प्रयोजनाभावात् ब्रह्म न कारणम् ॥ ३२ ॥
लोकवतु लीलाकैवल्यम् ॥ अवाप्तसमस्तकामस्यापि लीलाप्रयोजनत्वे नैरपेक्ष्यं सम्भवति, लोके केवललीलायै कन्तुकाद्यारम्भदर्शनात् । अस्यात्मतृप्तस्यावाप्तसमस्तकामत्वं हि सदाभिमतसकलभोगोपकरणसद्भावः । आत्मतृप्त गतृप्तिर्विसजातीया । लीलारसस्यापि तद्विलक्षणस्य त्रिगुणपुरुषाद्युपकरणचित्यमेव ॥ ३३ ॥
वैषम्यनैपुण्ये न सापेक्षत्वात्तथाहि दर्शयति ॥ देवादिविषमस्प्ट्या पक्षपातो नैघृण्यच न सम्भवति परस्य, क्षेत्रकर्मसापेक्षत्वाद्विषमसष्टेः; तथा 'साधुकारी साधुर्भवति पापकारी पापो भवति" इति श्रुतिरेव दर्शयति॥
न कर्माविभागादितिचेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च ॥ २"सदेव सोम्येदमग्र आसीत् एकमेव" इत्येकत्वावधारणात् , तदानी क्षेत्रमा भावात् कर्म न सम्भवति, इति चेत्-न; अनादित्वात् क्षेत्रज्ञानां तत्तत्कर्मप्र. वाहश्चास्त्येव; उपपद्यते च तदनादित्वेऽप्यविभागश्रुतिः, नामरूपविभागाभावात् , ३'तद्धेदं तहव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियत' इत्यनयैका
र्थ्यात् ; उपलभ्यते च श्रुतिषु क्षेत्रज्ञानादित्वम् ४ "शाशी द्वावजावीशनीशौ" ५"निस्यो नित्थानाम्" इति ॥ ३५ ॥
सर्वधर्मोपपत्तेश्च ॥ प्रधानपरमाण्वादिग्बनुपपन्नानां सर्वधर्माणां - १.१. ६-४-५ ॥-२. छा. ६-२-१ ॥-३. र. ३.४-७ ॥--४. श्वे.१-९ ।।
For Private And Personal Use Only